भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 126, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 126

[अ० ३६-३७श्लो० १८-३३-१-५] वायुपुराणम् । ११७ ( भुवनविन्यासः ) शीतान्तश्च कुमुञ्जश्च सुवीरश्चाचलोत्तमः । विकङ्को मणिशीलश्च वृषभश्चाचलोत्तमः ॥ १८ मRole... महानीलोऽथ रुचकः सविन्दुर्मन्दरस्तथा । वेणुमांश्च सुमेधश्च निषधो देवपर्वतः ॥ १९ इत्येते पर्वतवरा अन्ये च गिरयस्तथा । पूर्वेण मन्दरस्यैते सिद्धवासा उदाहृताः ॥ २० सरसो मानसस्येह दक्षिणा ये महाचलाः । ये कीर्तिता मया ते वै नामतस्तान्निबोधत ॥ २१ शैलस्त्रिशिखरश्चापि शिशिरश्चाचलोत्तमः । कालिञ्जश्च पतङ्गश्च रुचकश्चैव सानुमान् ॥ २२ ताम्राभश्च विशाखश्च तथा श्वेतोदरो गिरिः । समूलो विषधारश्च रत्नधारश्च पर्वतः ॥ २३ एकशृङ्गो महामूलो गजशैलः पिशाचकः । पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ॥ २४ इत्येते देवचरिता ह्युत्कृष्टाः पर्वतोत्तमाः । दिग्भागे दक्षिणे प्रोक्ता मेरोरमरवर्चसः ॥ २५ अपरेण सितोदस्य सरसो द्विजसत्तमाः । उत्तमा ये महाशैलास्तान्प्रवक्ष्ये यथाक्रमम् ॥ २६ सुवक्षाः शिखिशैलश्च कालो वैदूर्यपर्वतः । कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः ॥ २७ कुमुदो मधुमांश्चैव अञ्जनो मुकुटस्तथा । कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्च ह ॥ २८ पारिजातश्च शैलेन्द्रास्त्रिशृङ्गश्चाचलोत्तमः । इत्येते पर्वतवरा दिग्भागे पश्चिमे स्मृताः ॥ २९ महाभद्रस्य सरस उत्तरपाणि श्रीमतः । ये मया पर्वताः प्रोक्तास्तान्वादिष्ये यथाक्रमम् ॥ ३० शङ्कुकूटो महाशैलो वृषभो हंसपर्वतः । नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् ॥ ३१ नीलः कनकशुङ्गश्च शतशृङ्गश्च पर्वतः । पुष्पको मेघशैलश्च विराजश्चाचलोत्तमः ॥ जाराधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ३२ एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । स्थाल्योऽभ्यन्तरद्रोणश्च सरांसि च निबोधत ॥ ३३ इति श्रीमद्महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ आदितः श्लोकानां समष्ट्यङ्काः—२८१६

अथ सप्तत्रिंशोऽध्यायः । भुवनविन्यासः ।

सूत उवाच— शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु । द्रोण्यो विहङ्गसङ्घृष्टा नानासत्त्वनिषेविताः ॥ १ (* त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः । सुरसामलपानीयैरम्यं तत्र सरोवरम् ॥ २ द्रोणायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः ।) सहस्रशतपत्रैर्हि महापद्मैर्लङ्कृतम् ॥ ३ महोरगैरध्युषितं + महाभोगैर्दुरासदैः । देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम् ॥ ४ पुण्यं तच्छीसरो नाम प्रकाशं दिवि चेह च । प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम् ॥ ५


* धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति । + महाभोगैरित्यारभ्य सप्तचत्वारिंशाध्यायस्य- षोडशश्लोकस्थब्रह्मपातो निवसतीत्यन्तग्रन्थः ख. पुस्तके नास्ति ।