वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 20, कुल 465 में से
संदर्भ में पढ़ें〔अ० २ श्लो० ९-२३〕 वायुपुराणम् । ११
( प्रजापतिसृष्टिकथनम् )
यस्यां च बद्धा प्रथमा प्रवृत्तिः प्राधानिकी चेश्वरकारिता च । यतस्तमृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः ॥ ९ आत्मा गुहा योनिरथापि चक्षुः क्षेत्रं तथैवामृतमक्षरं च । शुकं तपः सत्त्वमभिमकाशं तद्व्यष्टि नित्यं पुरुषं द्वितीयम् ॥ १० तमप्रमेयं पुरुषेण युक्तं स्वयंभुवा लोकपितामहेन । उत्पादकत्वादजसोऽतिरेकात्कालस्य योगान्नियमावधेश्च ॥ ११ क्षेत्रज्ञयुक्तानियतान्विकाराँल्लोकस्य संतानविवृद्धिहेतून् । प्रकृत्यवस्था सुषुवे तथाऽष्टौ संकल्पमात्रेण महेश्वरस्य ॥ १२ देवासुराद्रिद्रुमसागराणां (*गन्धर्वयक्षोरगमानुषाणाम् । ) मनुप्रजेशर्षिपितृद्विजानां पिशाचयक्षोरगराक्षसानाम् ॥ १३ तारामहार्क्षन्निशाचराणां मासर्तुसंवत्सररात्र्यहानाम् । दिक्कालयोगादियगायनानां वनौषधीनामपि वीरुधां च ॥ १४ जलौकसामप्सरसां पशूनां विद्युत्सरिन्मेघविहङ्गमानाम् । यत्सूक्ष्मगं यद्द्भुवि यद्वियत्स्थं यत्स्थावरं यत्र यदस्ति किंचित् ॥ १५ सर्वस्य तस्यास्ति गतिर्विभक्तिराब्रह्मणो यावदियं प्रसूतिः । छन्दांसि वेदाः सकृचो यजूंषि सामानि सोमश्च तथैव यज्ञः ॥ १६ आजीव्यमेषां यदभीप्सितं च देवस्य तस्यैव च वै प्रजानाम् । वैवस्वतस्यास्य मनोः पुरस्तात्संभूतिरुक्ता प्रसवश्च तेषाम् ॥ १७ येषामिदं पुण्यकृतां प्रसृत्या लोकत्रयं लोकनमस्कृतानाम् । सुरेशवर्षमनुप्रधानमापूरितं चोपरिभूषितं च ॥ १८ रुद्रस्य शापात्पुनरुद्भवश्च दक्षस्य चाप्यत्र मनुष्यलोके । वासः क्षितौ वा नियमाद्भवस्य दक्षस्य चाप्यत्र मनुष्यलोके ॥ १९ मन्वन्तराणां परिवर्तनानि युगेषु संभूतिविकल्पनं च । ऋषित्वमार्षस्य च संभवृद्धिर्यथा युगादिष्वपि चेत्तदत्र ॥ २० ये द्वापरेषु प्रथयन्ति वेदान्व्यासाश्च तेऽत्र क्रमशो निबद्धाः । कल्पस्य संख्या भुवनस्य संख्या ब्राह्मस्य चाप्यत्र दिनस्य संख्या ॥ २१ ÷अण्डोद्भिज्जस्वेदजरायुजानां धर्मात्मनां स्वर्गनिवासिनां वा । ये यातनास्थानगताश्च जीवास्तत्केण तेषामपि च प्रमाणम् ॥ २२ आत्यन्तिकः प्राकृतिकाश्च योऽयं नैमित्तिकश्च प्रतिसर्गहेतुः । बन्धश्च मोक्षश्च विशिष्य तत्र प्रोक्ता च संसारगतिः परा च ॥ २३
* धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके । ÷ 'अण्डोड्डिज' इत्यार्षः प्रयोगः ।