भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 209, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 209

२०० श्रीमद्वैपायनमुनिप्रणीतम्- -[अ० ५९ श्लो० ३-२९] (ऋषिलक्षणम्)

मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह । तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ॥ ३
अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु च । परमायुः शतं त्वेतन्मनुष्याणां कलौ स्मृतम् ॥ ४
देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं हसत् । अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ॥ ५
देवासुरप्रमाणं तदुच्छ्रायं कलिजैः स्मृतम् । चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ॥ ६
स्वेनाङ्गुलप्रमाणेण ऊर्ध्वमापादमस्तकम् । इत्येष मानुषोत्सेधो हसतहि युगान्तिके ॥ ७
सर्वेषु युगकालेषु अतीतानागतेष्विह । स्वेनाङ्गुलप्रमाणेण अष्टतालः स्मृतो नरः ॥ ८
आपादतो मस्तकं तु नवतालो भवेत्तु यः । संहताजानुबाहुस्तु स सुरैरपि पूज्यते ॥ ९
गवाश्वहस्तिनां चैव महिषस्थावरात्मनाम् । क्रमेणैतेन योगेन हासवृद्धी युगे युगे ॥ १०
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै । अङ्गुलाष्टशतं पूर्णमुत्सेधः कारिणां स्मृतः ॥ ११
अङ्गुलानां सहस्रं चत्वारिंशाङ्गुलं विना । पञ्चाशतं हयानां च उत्सेधः शाखिनां स्मृतः ॥ १२
मानुषस्य शरीरस्य संनिवेशस्तु यादृशः । तल्लक्षणस्तु देवानां पक्षिणां दृश्यते तत्त्वदर्शनात् ॥ १३
बुद्ध्याऽतिशययुक्तं च देवानां कायमुच्यते । देवानातिशयं चैव मानुषं कायमुच्यते ॥ १४
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः । पशूनां पक्षिणां चैव स्थावराणां निबोधत ॥ १५
गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः । उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ॥ १६
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः । यथाशयोपभोगास्तु देवानां शुभमूर्तयः ॥ १७
तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः । मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ॥ १८
अतः शिष्टान्मवक्ष्यामि सतः साधूंस्तथैव च । सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत ॥
सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रचक्षते ॥ १९
दशात्मके ये विषये कारणे चाष्टलक्षणे । न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ॥ २०
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च । ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ॥ २१
वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः । श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ॥ २२
विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः । क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥ २३
साधनातपसोऽरण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ २४
एवमाश्रमधर्माणां साधनात्साधवः स्मृता । गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ॥ २५
न च देवा न पितरो मुनयो न च मानवाः । अयं धर्मो ह्ययं नेति ब्रुवते भिन्नदर्शनाः ॥ २६
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ । कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ ॥ २७
[+ धारणा धृतिरित्यार्थाद्धातोर्धर्मः प्रकीर्तितः । अधारणेऽमहत्त्वे च अधर्म इति चोच्यते ॥ २८
अत्रेष्टमापको धर्म आचार्यैरुपदिश्यते ] वृद्धा ह्यलोलुपाश्चैव आत्मवन्तो ह्यदम्भकाः ॥
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रचक्षते ॥ २९


+ धनुश्चिह्नान्तरग्रन्थो ग पुस्तके नास्ति ।