वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 214, कुल 465 में से
संदर्भ में पढ़ें[अ० ५९।६० श्लो १२३-१४२।१-२] वायुपुराणम् । २०५
( महास्थानतीर्थवर्णनम् )
( * नव दुर्गाः स्थितास्तत्र क्षेत्रसंरक्षणाय च । वह्निद्वयं त्रिगुण्येशं तथा यज्ञचतुष्टयम् ) ॥ १२३
विवाहव्रतचूडासु करं तेषां प्रदीयते । आचारा विविधाः प्रोक्ता वाडवानां प्रयत्नतः ॥ १२४
तावन्तो द्विगुणाः शूद्रा यावन्तो ब्राह्मणाः स्मृताः । कुशरूपा द्विजाः पूर्वं मूर्तिमन्तस्ततः स्थिताः
मन्त्रैर्मन्त्रविदां श्रेष्ठैः कृता वै शास्त्रकोविदैः । वापीकूपतडागानि देवायतनानि च ॥ १२६
धर्मशालाऽपि बहुला वायुस्थाने महापुरे । रत्नावती स्वर्णमयी गङ्गा चामृतवाहिनी ॥ १२७
कलौ दृषद्वती नाम महापातकनाशिनी । वायुना स्थापितं ह्येतच्छासनं पापनाशनम् ॥ १२८
सुबन्दनं वनं तत्र रम्यं राजर्षिसेवितम् । एतत्स्थानं मया प्रोक्तं सर्वेषां च समासतः ॥ १२९
निरू(रु)पमाश्च ते विप्रा वायुना स्थापिताश्च ये । उपमा चैव देवेशि विधेया ब्राह्मणस्य तु॥ ]
( + सुद्युम्नाश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः । दशमस्तु भरद्वाजो मन्त्रब्राह्मणकारकाः ॥ १३१
एते चैव हि कर्तारो विधर्मध्वंसकारिणः ) । लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाधिनाम् ॥ १३२
हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितं परैः । अथ वार्थपरिप्रोतेर्हिनोतेर्गतिकर्मणः ॥ १३३
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् । निन्दां तामाहुराचार्या यद्दोषानिन्द्यते वचः ॥ १३४
प्रपूर्वाच्छंसतेर्धातोः प्रशंसा गुणवत्तया । इदं त्विदमिदं नेदमित्यानिश्चित्य संशयः ॥ १३५
इदमेव विधातव्यमितीयं विधिरुच्यते । अन्यस्यान्यस्य चोक्तत्वाद्बुधाः परकृतिः स्मृता ॥ १३६
यो ह्यत्यन्तपरोक्षश्च पुराकल्पः स उच्यते । पुरा विक्रान्तवाचित्वात्पुराकल्पस्य कल्पना ॥ १३७
मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः । अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ॥ १३८
यथा हीदं तथा तद्वै इदं वापि तथैव तत् । इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ॥ १३९
इत्येतद्ब्राह्मणस्याऽदौ विहितं लक्षणं बुधैः । तस्य तद्वृत्तिरुद्दिष्टा व्याख्याऽप्यनुपदं द्विजैः ॥ १४०
मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु । मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ॥ १४१
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ १४२
इति श्रीमहापुराणे वायुप्रोक्ते ऋषिलक्षणं नामोनषष्ट्यध्यायः ॥ ५९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४८२५
अथ षष्ट्यध्यायः ।
महास्थानतीर्थवर्णनम्
ऋषय ऊचुः--
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम् । कथं वेदाः पुरा व्यस्तास्तन्नो ब्रूहि महामते ॥ १
सूत उवाच--
द्वापरे तु परावृत्ते मनोः स्वायंभुवेऽन्तरे । ब्रह्मा मनुमुवाचेदं तद्गादिष्ये महामते ॥ २
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. घ. ङ. पुस्तकेषु नास्ति ।