भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 233, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 233

२२४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६२श्लो०१३६-१५८] (पृथिवीदोहनम्)

अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥ १३६
एतस्मिन्नेव काले च यज्ञे पैतामहे शुभे । सूतः सुत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ॥ १३७
*[सामगेषु तु गायत्सु सुग्भाण्डे वैश्वदेवके । सामगाने समुत्पन्नस्तस्मान्मागध उच्यते ]
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः । जुहावेन्द्राय देवेन ततः सूतो व्यजायत ॥ १३८
प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु । शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥
अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ॥ १३९
यच्च क्षत्रात्समभवद्ब्राह्मण्यं हीनयोनितः । सूतः पूर्वेण साधम्र्म्यात्तुल्यधर्मः प्रकीर्तितः ॥ १४०
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्व चरितं जघन्यं च चिकित्सितम् ॥ १४१
पृथोस्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः । तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः ॥
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥ १४२
तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥ १४३
न चास्य कर्म वै विद्मो न तथा लक्षणं यशः । स्तोत्रं येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः ॥ १४४
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । दानधर्मरतो नित्यं सत्यवाक्संजितेन्द्रियः ॥
ज्ञानशीलो वदान्यस्तु संग्रामेष्वपराजितः ॥ १४५
यानि कर्माणि कृतवान्पृथुश्चापि महाबलः । तानि शीलेन बद्धानि स्तुवद्भिः सूतमागधैः ॥ १४६
ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः । अनूपदेशं सूताय मागधान्मागधाय च ॥ १४७
तदा वै पृथिवीपालाः स्तूयन्ते सूतमागधैः । आशीर्वादैः प्रबोध्यन्ते सूतमागधवन्दिभिः ॥ १४८
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः । एष वो वृत्तिदो वैन्यो भवत्विति नराधिपः ॥ १४९
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः । त्वं नो वृत्तिं विधत्स्वेति महर्षेर्वचनात्तदा ॥
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥ १५०
धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली । अस्यार्दनभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥ १५१
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत । सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥
ददर्श चाग्रतो वैन्यं कार्मुकोद्यतधारिणम् ॥ १५२
ज्वलद्भिरिवशिखैर्बाणैर्दीप्ततेजसमच्युतम् । महायोगं महात्मानं दुर्धर्षममरैरपि ॥ १५३
अलभन्ती तदा त्राणं वैन्यमेवान्वपद्यत । कृष्णाञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सदा ॥ १५४
उवाच वैन्यं नाथर्मं स्त्रीवधे परिपश्यसि । कथं धारयिता चापि प्रजा राजन्मया विना ॥ १५५
मयि लोकाः स्थिता राजन्मयैदं धार्यते जगत् । मष्टे च विनश्येयुः प्रजाः पार्थिवसत्तम ॥ १५६
न मामर्हसि वै हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि । प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ १५७
उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । हत्वाऽपि मां न शक्तस्त्वं प्रजानां पालने नृप ॥ १५८


* धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति ।