वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 261, कुल 465 में से
संदर्भ में पढ़ें३५२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६८-६९श्लो० २६-३९-१-७] ( कश्यपीयप्रजासर्गः )
ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः । चतुर्दश तथाऽन्यानि हिरण्यपुरवासिनाम् ॥ २६ पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः । अवध्या देवतानां ते निहताः सव्यसाचिना ॥ २७ मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः । मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ॥ २८ बालिको वज्रकर्णश्च कन्या मन्दोदरी तथा । दैत्यानां दानवानां च सर्ग एष प्रकीर्तितः ॥ २९ दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः । अरूरुर्बलिजन्मौ च विरक्षश्च विषस्तथा ॥ ३० अरूरोस्तनयः क्रूरो धुन्धुर्नाम महासुरः । निहतः कुवलाश्वेन उत्तङ्कवचनात्किल ॥ ३१ बलेः पुत्रौ महावीर्यौ तेजसाऽप्रतिमावुभौ । कुम्भिलश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ॥ ३२ विरक्षस्यापि पुत्रौ द्वौ कालकश्च वरश्च तौ । विषस्य त्वभवन्पुत्राश्चत्वारः क्रूरकर्णिकः ॥ श्राद्धहा यज्ञहा चैव ब्रह्महा पशुहा तथा ॥ ३३ क्रान्ता दनायुषापुत्रा वृत्रस्यापि निबोधत । जज्ञिरे श्वसनाद्धोराद्दृष्टस्येन्द्रेण युध्यतः ॥ ३४ भर्त्तारो मनसा ख्याता राक्षसाः सुमहाबलाः । शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥ ३५ सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्तयः । प्रजास्वन्तर्गताः सर्वे निवसन्ति सुधार्मिकाः ॥ ३६ दैत्यानां दानवानां स सर्ग एष प्रकीर्तितः । प्रवाद्यजनयत्पुत्रान्यज्ञै वै गायनोत्तमान् ॥ ३७ सत्वः सत्त्वात्मकश्चैव कलापश्चैव वर्यवान् । क्रुतवीर्यो ब्रह्मचारी सुपाण्डुश्चैव सप्तमः ॥ ३८ पनश्चैव तरण्यश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वा विज्ञेयाः परिकीर्तिताः ॥ ३९ इति श्रीमहापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गो नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥
आदितः श्लोकानां समष्ट्यङ्काः—६१९१
अथ नवषष्टितमोऽध्यायः ।
कश्यपीयप्रजासर्गः ।
सूत उवाच-- गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्तिताः । चित्रसेनोद्यसेनश्च ऊर्णायुरनघस्तथा ॥ १ धृतराष्ट्रः पुलोमा च सूर्यवर्चास्तथैव च । युगपत्तृणपत्कालिदितिश्चित्ररथस्तथा ॥ २ त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः । कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥ इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ ३ चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः । अन्तरा दारवत्या च प्रियमुरुख्या सुरोत्तमा ॥ ४ मिश्रकेशी तथा चाशी वर्णिनी वाऽप्यलम्बुषा । मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ५ अद्रिका लक्षणा चैव देवी रम्भा मनोरमा । सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ६ पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा । हेमा शारद्वती चैव सुवृत्ता कमला च या ॥ ७