भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 275, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 275

२६६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६९–श्लो० ३३३-३५५] ( कश्यपीयप्रजासर्गः )

मणिमन्तं च शैलेन्द्रं सहस्रशिखरं तथा । पर्णमालं सुकेशं च शतशृङ्गं तथाऽचलम् ॥ ३३३ कौरजं पद्मशिखरं हेमकूटं च पर्वतम् । प्रचण्डवायुप्रभवैर्दीपितैः पद्मरागिभिः ॥ ३३४ शैलजालानि व्याप्तानि गारुडैस्तैर्महात्मभिः । भासीपुत्राः स्मृता भासा उलूकाः काककुक्कुटाः ॥ मयूराः कलविङ्काश्च कपोता लावात्तित्तिराः । * क्रौञ्ची वार्धीणसाञ्श्येनी कुररान्सारसान्बकान् ॥ इत्येवमादयोऽन्येऽपि कव्यादा ये च पक्षिणः । धृतराष्ट्री च हंसांश्च कलहंसांश्च भामिनी ॥ ३३७ चक्रवाकांश्च विन्दूगान्सर्वाश्चैवादकाजिहान् । एतानेव विजज्ञेऽथ पुत्रपौत्रमनन्तकम् ॥ ३३८ गरुडस्याऽऽत्मजाः प्रोक्ता इरायाः शृणुत प्रजाः । इरा प्रजज्ञे कन्या वै तिस्रः कमललोचनाः ॥ वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः । लता चैवाथ वल्ली च वीरुधा चेति तास्तु वै ॥ ३३९ लता वनस्पतीञ्जज्ञे सपुष्पान्पुलिनास्थितान् । युक्तान्पुष्पफलैर्वृक्षांल्लता वै संप्रसूयते ॥ ३४० अथ वल्ली तु गुल्मांश्च त्वक्सारास्तृणजातयः । वीरुधा तदपत्यानि वंशश्चात्र समाप्यते ॥ ३४१ एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः । तेषां पुत्राश्च पौत्राश्च यैरिदं पूरितं जगत् ॥ इति सर्गैकदेशस्य कीर्तितोऽवयवो मया । मारीचोऽयं प्रजासर्गः समासेन प्रकीर्तितः ॥ न शक्यं व्यासतो वक्तुमपि वर्षशतैर्द्विजाः ॥ ३४३ अदितिर्धर्मशीला तु बलशीला दितिः स्मृता । तपःशीला तु सुरभिर्मायाशीला दनुः स्मृता ॥ [+ मुनिश्च गन्धशीला वै प्राबाध्ययनशालिनी । गीतशीला त्वरिष्टाऽथ क्रोधशीला खशा स्मृता ] क्रूरशीला तथा कद्रूः कौञ्च्यथ श्रुतिशालिनी । इराऽनुग्रहशीला तु दनायुर्भक्षणे रता ॥ ३४२ वाहशीला तु विनता ताम्रा वै पाशशालिनी । स्वभावा लोकमातृणां शीलान्येतानि सर्वशः ॥ धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः । रजःसत्त्वतमोवृत्ता धार्मिकाधार्मिकास्तु वै ॥ ३४७ मातृतुल्याश्चाभिजाताः कश्यपस्याऽऽत्मजाः प्रजाः । देवदासुरगन्धर्वा यक्षराक्षसपन्नगाः ॥ पिशाचाः पशवश्चैव मृगाः पतगवीरुधः ॥ ३४८ यस्मादाक्षयणीष्वेते जज्ञिरे मानुषीष्विह । मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥ ३४९ धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै । ततोऽधःश्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥ ३५० जायन्ते कार्यसिद्धयर्थं मानुषेषु पुनः पुनः । इत्येव वंशप्रभवः प्रसंख्यातस्तपस्विनाम् ॥ ३५१ सुराणामसुराणां च गन्धर्वाप्सरसां तथा । यक्षरक्षःपिशाचानां सुपर्णोरगपक्षिणाम् ॥ ३५२ व्यालानां शिखिनां चैव ओषधीनां च सर्वशः । कृमिकीटपतङ्गानां क्षुद्राणां जलजाश्च ये ॥ पशूनां ब्राह्मणानां च श्रीमतां पुण्यलक्षणः ॥ ३५३ आयुष्यश्चैव धन्यश्च श्रीमान्हितसुखावहः । श्रोतव्यश्चैव सततं ग्राह्यश्चैवानसूयता ॥ ३५४ इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणवैद्यसंसदि । अपत्यलाभं हि लभेत पुष्कलं श्रियं धनं प्रेत्य च शोभनां गतिम् ॥ ३५५ इति महापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गो नाम नवषष्टितमोऽध्यायः ॥ ६९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-६५०६


* एतदर्धस्थाने 'क्रौञ्चा वार्धीणसाः श्येनाः कुरराः सारसा बकाः' इति ख. ग. घ. ङ. पुस्तकेषु ।

  • धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।