वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 298, कुल 465 में से
संदर्भ में पढ़ें[अ० ७७ श्लो ० ९९-१२४] वायुपुराणम् । २८०
( श्राद्धकल्पः )
ख्यापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम् । एवं पञ्चवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ॥
यस्मिन्पाण्डुविशालेति तीर्थं सद्यो निदर्शनम् ॥ ९९
तुलामानैस्तथा चापैः शास्त्रैश्च विविधैस्तथा । उन्मज्जन्ति तथा लग्ने ये वै पापकृतो जनाः ॥ १००
तृतीयायां तथा पादे निःस्वरे पावमण्डले(?)। महाह्रदे वै कौशिक्यां दत्तं श्राद्धं महाफलम् ॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धिमिता । बह्विन्देवयुगांस्तप्त्वा तपस्तीव्रं सुदुश्चरम् ॥ १०२
अल्पेनाप्यत्र कालेन नरो धर्मपरायणः । पाप्मानमुत्सृजत्याशु जीर्णंत्वचमिवोरगः ॥ १०३
सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः । लेलिहानैर्महाभोगै रक्षितं तु दिवानिशम् ॥ १०४
नाम्ना कनकनन्दीति तीर्थं त्रैलोक्यविश्रुतम् । उदीच्यां मुण्डपृष्ठस्य देवर्षिगणसेवितम् ॥
तत्र स्नात्वा दिवं यान्ति कामचारा विहंगमाः ॥ १०५
दत्तं चापि तथा श्राद्धमक्षयं समुदाहृतम् । ऋणैस्त्रिभिस्तदा स्नात्वा निक्षीणोति नरोत्तमः ॥ १०६
तीरे तु सरसस्तत्र देवस्याऽऽयतनं महत् । आरुह्य तज्जपंस्तत्र सिद्धो याति दिवं ततः ॥ १०७
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् । तत्र गत्वा सुरश्रेष्ठं दृश्यते महदद्भुतम् ॥ १०८
तस्मिन्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् । कामान्स लभते दिव्यान्मोक्षोपायं च नित्यशः ॥ १०९
मानसे सरसि श्रेष्ठे दृश्यते महदद्भुतम् । दिवश्चच्युता महाभागा ह्यन्तरिक्षे विराजते ॥ ११०
गङ्गा त्रिपथगा देवी सोमपादाच्च्युता भुवि । आकाशे दृश्यते तत्र तोरणं सूर्यसंनिभम् ॥ १११
जाम्बूनदमयं दिव्यं स्वर्गद्वारमिवाऽऽयतम् । यतः प्रवर्त्तते भूयः पूर्वसागरमन्तिमम् ॥ ११२
पावनी सर्वभूतानां धर्मज्ञानां विशेषतः । चन्द्रभागा च सिन्धुश्च उभे मानससंनिभे ॥
सागरं पश्चिमं याति दिव्यसिन्धुर्नदीवरः ॥ ११३
पर्वतो हिमवान्नाम नानाधातुविभूषितः । योजनानां सहस्राणि आयतोऽशीतिरुच्यते ॥ ११४
सिद्धचारणसंकीर्णः सिद्धचारणसेवितः । तत्र पुष्करिणी रम्या सुषुम्ना नाम विश्रुता ॥ ११५
दश वर्षसहस्राणि तत्र जातस्तु जीवति । श्राद्धं भवति चाऽऽनन्त्यं तस्यां दत्तं महोदयम् ॥
तारयेच्च यदा श्राद्धं दशपूर्वान्दशापरान् ॥ ११६
सर्वं पुण्यं हिमवतो गङ्गा पुण्या च सर्वतः । समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः ॥ ११७
एवमादिषु सर्वेषु श्राद्धं निर्वर्तयेद्बुधः । पूतो भवति स्नात्वा नु दत्त्वा दत्त्वा तथैव च ॥ ११८
शैलसानुषु तुङ्गेषु कन्दरेषु गुहासु च । उपद्वरानितम्बेषु तथा प्रश्रवणेषु च ॥ ११९
पुलिनेष्वपगानां च तथैव प्रभवे युगे । महोदधौ गवां गोष्ठे संगमेषु वनेषु च ॥ १२०
असंमृष्टोपलिप्तासु हृद्यासु सुरभीषु च । गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ॥ १२१
कुर्याच्छाद्धमथैतेषु नित्यमेव यथाविधि । प्रदक्षिणं दिशं गत्वा सर्वकामचिकीर्षकः ॥ १२२
एवमेतेषु सर्वेषु श्राद्धं कुर्यात्तदन्द्रितः । एवमेव तु मेधावा ब्राह्मीं सिद्धिमवाप्नुयात् ॥ १२३
त्रैवर्ण्यं विहिते स्थाने धर्मवर्णाश्रमे तथा । कोपस्थानस्य संत्यागात्माप्यते पितृपूजनम् ॥ १२४
३७