वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 310, कुल 465 में से
संदर्भ में पढ़ें[अ० ८१-८२ श्लो० १-१५।] वायुपुराणम् । ३०१ (श्राद्धकल्पः)
अथ द्व्यशीतितमोऽध्यायः ।
श्राद्धकल्पे नक्षत्रविशेषे श्राद्धफलम् ।
बृहस्पतिरुवाच-- यमस्तु यानि श्राद्धानि प्रोवाच शिवविन्दवे । तानि मे शृणु कात्स्न्र्येन नक्षत्रेषु पृथक्पृथक् ॥ १ श्राद्धं यः कृत्तिकायोगे करोति सततं नरः । अग्नीनाधाय सापत्यो जायते स गतज्वरः ॥ २ अपत्यकामो रोहिण्यां सौम्येनाौजस्विता भवेत् । प्रायशः क्रूरकर्मा तु चाऽऽर्द्रायां श्राद्धमाचरेत् ॥ ३ क्षेत्रभागी भवेत्पुत्री श्राद्धं कुर्वन्पुनर्वसौ । धनधान्यसमाकीर्णः पुत्रपौत्रसमाकुलः ॥ ४ तुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः । आश्लेषासु पितॄनर्च्य वीरान्पुत्रानवाप्नुयात् ॥ ५ श्रेष्ठो भवति ज्ञातीनां मघासु श्राद्धमाचरन् । फाल्गुनीषु पितॄनर्च्य सौभाग्यं लभते नरः ॥ ६ प्रधानशीलः सापत्य उत्तरासु करोति यः । स सत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् ॥ ७ चित्रायां चैव यः कुर्यात्पश्येदूपवतः सुतान् । स्वातिना चैव यः कुर्याद्विद्वाँल्लाभमवाप्नुयात् ॥ ८ पुत्रार्थं तु विशाखासु श्राद्धमीहेत मानवः । अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्तयेत् ॥ ९ आधिपत्यं लभेच्छ्रैष्ठ्यं ज्येष्ठायां सततं तु यः । मूलेनाऽऽरोग्यमिच्छन्ति आषाढासु महद्यशः ॥ १० आषाढाभिश्चोत्तराभिर्वीतशोको भवेन्नरः । श्रवणेन तु लोकेषु प्राप्नुयात्परमां गतिम् ॥ ११ राजभाग्वै धनिष्ठासु प्राप्नुयाद्विपुलं धनम् । श्राद्धं त्वाभिजिता कुर्वन्वेदान्साङ्गानवाप्नुयात् ॥ १२ नक्षत्रे वारुणं कुर्वन्भिषक्सिद्धिमवाप्नुयात् । पूर्वे प्रोष्ठपदे कुर्वन्विन्देतेऽजाविकं फलम् ॥ १३ उत्तरास्वनतिक्रम्य विन्देद्वाश्व सहस्रशः । बहुरूपकृतं द्रव्यं विन्देत्कुर्वंस्तु रेवतीम् ॥ अश्वांश्चैवाऽश्विनीयुक्तो भरण्यामायुरुत्तमम् ॥ १४ इमं श्राद्धविधिं कुर्वञ्शशबिन्दुर्महीमिमाम् । *कृत्स्नां तु लेभे स कृत्स्नां लब्ध्वा च प्रशशांस तम् ॥ १५
इति श्रीमहापुराणे वायुप्रोक्ते नक्षत्रविशेषे श्राद्धफलवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ आदितः श्लोकानां समष्ट्यङ्काः--७३६२
अथ त्र्यशीतितमोऽध्यायः ।
श्राद्धकल्पे भिन्नकालिकतृप्तिसाधनद्रव्यविशेषगयाश्राद्धादिफल- ब्राह्मणपरीक्षादिकथनम् ।
( + शंयुरुवाच-- किंचिद्दत्तं पितॄणां तु धिनोति वदतां वर । किं हि स्विच्चिररात्राय किं चाऽऽनन्त्याय कल्प्यते ॥ ) १
* एतदर्धस्थान इदमर्धम्-‘कृत्स्नां सलभतोत्कृष्टां लब्ध्वा च प्रशशास ताम् इति' ङ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।