भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 325, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 325

३१६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०८७-८८श्लो०३४-४६।१-५] (वैवस्वतमन्वंशवर्णनम्)

द्वे चापरान्तिके विद्याद्यङ्गुष्ठाष्टकस्य तु । प्राकृते वैणवैश्चैव गान्धारांशे प्रयुज्यते ॥ ३४ पदस्य तु त्रयं रूपं सप्तरूपं तु कैशिकम् । गान्धारांशेन कार्त्स्न्येन पर्ययस्य विधिः स्मृतः ॥ एवं चैव क्रमोद्दिष्टो मध्यमांशस्य मध्यमः ॥ ३५ यानि गीतानि प्रोक्तानि रूपेण तु विशेषतः । तन्तु सप्तस्वरं कार्यं सप्तरूपं च कैशिकम् ॥ ३६ अङ्गुदर्शनामित्याहुर्माने द्वे समके तथा । द्वितीयभावाचरणा मात्रा नाभिमतिष्ठिता ॥ ३७ उत्तरे च प्रकृत्येवं मात्रा तल्लीयते तथा । हन्तारः पिण्डको यत्र मात्रायां नातिवर्तते ॥ ३८ पादेनैकेन मात्रायां पादोनामधिवीरणा । संख्यायाश्चोपहेननं तत्र यानमिति स्मृतम् ॥ ३९ द्वितीयं पादभङ्ग च ग्रहेणाभिप्रतिष्ठितम् । पूर्वमष्टतृतीये तु द्वितीयं चापरीतिके ॥ ४० अर्धेन पादसाम्यस्य पादभागाच्च पञ्चके । पादभागं सपादे तु प्रकृत्यामपि संस्थितम् ॥ ४१ चतुर्थमुत्तरे चैव मद्रवत्या च मद्रके । मद्रके दक्षिणास्यापि यथोक्ता वर्तते कला ॥ ४२ पूर्वमेवानुयोगं तु द्वितीया बुद्धिरिष्यते । पादौ चाऽऽहरणं चास्मत्पारं नात्र विधीविते ॥ ४३ एकत्वमुपयोगस्य द्वयोर्यद्धि द्विजोत्तम । अनेकसमवायस्तु पताकाहरिणं स्मृतम् ॥ ४४ तिसृणां चैव वृत्तीनां वृत्तौ वृत्ता च दक्षिणा । अष्टौ सु समवायास्ते सौवेरी मूर्छना तथा ॥ कुशत्यनुत्तरः सत्यं सप्तसत्त्वस्वरं तु यः । * चित्रशाखासुतं तस्य धार्मिकस्य महात्मनः ॥ ४६

इति श्रीमहापुराणे वायुप्रोक्ते गीतालंकारनिर्देशो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥

आदितः श्लोकानां समष्ट्यङ्काः—७७२०


अथाष्टाशीतितमोऽध्यायः ।

वैवस्वतमन्वंशवर्णनम् ।

सूत उवाच—

ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह । हता पुण्यजनैः सर्वा राक्षसैः सा कुशस्थली ॥ १ तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः । निबध्यमाना रक्षोभिर्दिशः संपाद्रवन्भयात् ॥ २ तेषां तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र हि । अन्ववायस्तु सुमहान्महांस्तत्र द्विजोत्तमाः ॥ ३ प्रयता इतिविख्याता दिक्षु सर्वासु धार्मिकाः । धृष्टस्य धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ॥ ४ त्रिसाहस्रं तु सगशं क्षत्रियाणां महात्मनाम् । नभगस्य च दायादो नाभागो नाम वीर्यवान् ॥ ५


* इदमर्धं नास्ति क. पुस्तके । अस्यार्धस्य न पूर्वापरसंगतिः ।