वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 329, कुल 465 में से
संदर्भ में पढ़ें३२० श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०८८ श्लो० ८५-११३] (वैवस्वतमनुवंशवर्णनम्)
तस्मिंस्तु विषये तस्य नाववर्षत्पाकशासनः । समा द्वादश संपूर्णास्तेनाधर्मेण वै तदा । ८५ दारांस्तु तस्य विषये विश्वामित्रो महातपाः । संन्यस्य सागरानूपे चचार विपुलं तपः ॥ ८६ तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥ ८७ तं तु बद्धं गले दृष्ट्वा विक्रीतं तं नरोत्तमः । महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥ ८८ सत्यव्रतो महाबुद्धिर्भरं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ॥ ८९ सोऽभवद्गालवो नाम गले बद्धो महातपाः । महर्षिः कौशिकस्तातस्तेन वीर्येण मोक्षितः ॥ ९० तस्य व्रतेन भक्त्या च रूपया च प्रतिज्ञया । विश्वामित्रकलत्रं च बभार विनये स्थितः ॥ ९१ हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् । विश्वामित्राश्रमाभ्यासे तन्मांसमपचत्ततः ॥ ९२ उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । पितुर्न्नियोगादभजन्न्नृपे तु वनमास्थिते ॥ ९३० अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । याज्योपाध्यायसंयोगाद्वासष्ठः पर्य्यरक्षत ॥ ९४ सत्यव्रतस्तु वाल्यात्तु भाविनोऽर्थस्य वै बलात् । वसिष्ठेऽभ्यधिकं मन्युं धारयामास मन्युना ॥ ९५ पित्रा रुदंस्तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् । न वारयामास मुनिर्वासष्ठः कारणेन वै ॥ ९६ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । एवं सत्यव्रतस्तान्वै हतवान्सप्तमे पदे ॥ ९७ जानन्द्यर्मान्वासष्ठस्तु न च मन्त्रानिहेच्छति । इति सत्यव्रते रोषं वसिष्ठो मनसाऽकरोत् ॥ ९८ गुरुबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तदा । न तु सत्यव्रतोऽबुध्यदुपांशुव्रतमस्य वै ॥ ९९ तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः । तेन द्वादश वर्षाणि नाववर्षत्पाकशासनः ॥ १०० तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि । कुलस्य निष्कृतिः स्वस्य कृतेयं च भवेदिति ॥ १०१ ततो वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ॥ १०२ स तु द्वादश वर्षाणि दीक्षां तामुद्वहन्बली । अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ १०३ सर्वकामदुघां धेनुं स ददर्श नृपात्मजः । तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ १०४ दस्युधर्मं गतो दृष्ट्वा जघान बलिनां वरः । स तु मांसं स्वयं चैव विश्वामित्रस्य चाऽऽत्मजान् ॥१०५ भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदाऽत्यजत् । प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम् ॥ १०६ पातये क्रूर हे क्रूर तव शङ्कुमयोमयम् । यदि ते त्रीणि शङ्कनि न स्युर्हि पुरुषाधम ॥ १०७ पितुश्चापरितोषेण गुरोर्दोंग्धीवधेन च । अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १०८ एवं स त्रीणि शङ्कनि दृष्ट्वा तस्य महातपाः । त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः॥१०९ विश्वामित्रस्तु दाराणामागतो भरणे कृते । ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥ ११० छन्द्यमानो वरेणाथ गुरुं वव्रे नृपात्मजः । अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके ॥ १११ अभिषिच्य तदा राज्ये याजयामास तं मुनिः । मिषतां दैवतानां च वसिष्ठस्य च कौशिकः ॥११२ × विन्ध्यपाश्र्वे महापुण्या निम्नगा गिरिकानने । तस्य स्नानेन संभूता कर्मनाशा शुभा नदी ॥ सशरीरं तदा तं वै दिवमारोपयत्प्रभुः ॥ ११३
× नास्त्ययं श्लोकः क. ग. घ. ङ. पुस्तकेषु ।