भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 33, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 33

२४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ८ श्लो० ८-३५]
(चतुराश्रमविभागः)

उद्धृत्योर्वीमथाद्भ्यस्तु अपस्तास्तु स विन्यसन्। सामुद्रीस्तु समुद्रेषु नादेयीर्निम्नगास्वपि ॥ ८
पार्थिवीस्तु स विन्यस्य पृथिव्यां सोऽचिनोद्गिरीन्। प्राक्सर्गे दह्यमाने तु तदा संवर्तकाग्निना ॥ ९
तेनाग्निना प्रलीनास्ते पर्वता भुवि सर्वशः। ( * शैत्यादेकार्णवे तस्मिन्वायुनाऽऽपस्तु संहताः ॥ १०
निषक्ता यत्र यत्राऽऽसंस्तत्र तत्राऽचलोऽभवत् । स्कन्धाचलत्वादचलाः पर्वाभिः पर्वताः स्मृताः) ॥ ११
गिरयोऽद्भिनिगीर्णत्वाच्चयनाच्च शिलोच्चयाः। ततस्तु तां समुद्धृत्य क्षितिमन्तर्जलात्प्रभुः ॥ १२
स्वस्थाने स्थापयित्वा च विभागमकरोत्पुनः। सप्त सप्ततु वर्षाणि तस्या द्वीपेषु सप्तसु ॥ १३
विषमाणि समीकृत्य शिलाभिरचिनोद्गिरीन् । द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव च ॥ १४
तावन्तः पर्वताश्चैव वर्षान्ते समवस्थिताः। सर्गादौ संनिविष्टास्ते स्वभावेनैव नान्यथा ॥ १५
सप्त द्वीपाः समुद्राश्च अन्योन्यस्य तु मण्डलम्। संनिकृष्टाः स्वभावेन समावृत्य परस्परम् ॥ १६
भूराख्यांश्चतुरो लोकांश्चन्द्रादित्यौ ग्रहैः सह। पूर्वं तु निर्ममे ब्रह्मा स्थानानीमानि सर्वशः ॥ १७
कल्पस्य चास्य ब्रह्मा वै ह्यसृजत्स्थानिनः पुरा। आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिवं तथा ॥ १८
स्वर्गं दिशः समुद्रांश्च नदीः सर्वांश्च पर्वतान् । ओषधीनां तथाऽऽत्मानमात्मानं वृक्षवीरुधाम् ॥ १९
लवाः का(वान्का)ष्ठाः कलाश्चैव मुहूर्तं संधिरात्र्यहम्। अर्धमासांश्च मासांश्च अयनाब्दयुगानि च॥ २०
स्थानाभिमानिनश्चैव स्थानानि च पृथक्पृथक् । स्थानात्मनः स सृष्ट्वा वै युगावस्थां विनिर्ममे ॥ २१
कृतं त्रेता द्वापरं च कलिं चैव तथा युगम्। कल्पस्याऽऽदौ कृतयुगे प्रथमे सोऽसृजत्प्रजाः ॥ २२
प्रागुक्ता या मया तुभ्यं पूर्वकालं प्रजास्तु ताः। तस्मिन्संवर्तमाने तु कल्पे दग्धस्तदाऽग्निना ॥ २३
अप्राप्ता यास्तपोलोकं जनलोकं समाश्रिताः। प्रवर्त्तन्ति(न्ते) पुनः सर्गे बीजार्थं ता भवन्ति हि ॥ २४
बीजार्थेन स्थितास्तत्र पुनः सर्गस्य कारणात्। ततस्ताः सृज्यमानास्तु संतानार्थं भवन्ति हि ॥ २५
धर्मार्थकाममोक्षाणामिह ताः साध(धि)काः स्मृताः। देवाश्च पितरश्चैव ऋषयो मनवस्तथा ॥ २६
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति हि। ब्रह्मणो मानसास्ते वै सिद्धात्मानो भवन्ति हि ॥ २७
ये सङ्गोद्वेषयुक्तेन कर्मणा ते दिवं गताः। आवर्तमाना इह ते संभवन्ति युगे युगे ॥ २८
स्वकर्मफलशेषेण ख्याताश्चैव तथात्मिकाः। संभवन्ति जनाल्लोकात्कर्मसंशयबन्धनात् ॥ २९
आशयः कारणं तत्र बोद्धव्यं कर्मणां तु सः। तैः कर्मभिस्तु जायन्ते जनाल्लोकाः शुभाशुभैः। ३०
गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु। देवादयस्थावरान्ते च उत्पद्यन्ते परस्परम् ॥ ३१
तेषां ये यानि कर्माणि प्राक्सृष्टेः प्रतिपेदिरे । ( +तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३२
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते। तद्भाविताः प्रपद्यन्त तस्मात्तत्तस्य रोचते ॥ ३३
कल्पष्वासन्व्यतीतेषु रूपनामानि यानि च। तान्येवानागते काले प्रायशः प्रतिपेदिरे ॥ ३४
÷तस्मात्तु नामरूपाणि तान्येव प्रतिपेदिरे । ) पुनः पुनस्ते कल्पेषु जायन्ते नामरूपतः ॥ ३५


* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
÷ इदमर्धं नास्ति घ. पुस्तके ।