भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 332, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 332

[अ० ८८ श्लो० १६५-१९१] वायुपुराणम्। ३२३ (वैवस्वतमनुवंशवर्णनम् )

स तु ज्येष्ठो नरव्याघ्रः सगरस्याऽऽत्मसंभवः । असमञ्ज इति ख्यातो बर्हिकेतुर्महाबलः ॥ १६५ पौराणामाहिते युक्तः पित्रा निर्वासितः पुरा । तस्य पुत्रोऽंशुमान्नाम असमञ्जस्य वीर्यवान् ॥ १३६ तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः । दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥ १३७ येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता । ईजानेन समुद्राद्वै दुहितृत्वेन कल्पिता ॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥ १६८ भगीरथस्तु तां गङ्गामानयामास कर्मभिः । तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥ १६९ भगीरथसुतश्चापि श्रुतो नाम बभूव ह । नाभागास्तस्य दायादो नित्यं धर्मपरायणः ॥ १७० अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत् । एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥ १७१ नाभागेरम्वरीषस्य भुजाभ्यां परिपालिता । बभूव वसुधाऽत्यर्थं तापत्रयविवर्जिता ॥ १७२ आयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् । आयुतायोस्तु दायाद ऋतुपर्णो महायशाः ॥ १७३ दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली । नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ॥ १७४ वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः । ऋतुपर्णस्य पुत्रोऽभूत्सर्वकामो जनेश्वरः ॥ १७५ सुदासस्तस्य तनयो राजा हंसमुखोऽभवत् । सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ १७६ ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः । वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ॥ अश्मकं जनयामास इक्ष्वाकुकुलवृद्धये ॥ १७७ अश्मकस्योरकामस्तु मूलकस्तत्सुतोऽभवत् । अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥ १७८ स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् । विवस्त्राणामिच्छन्वै नारीकवचमीश्वरः ॥ १७९ मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः । तस्माच्छतरथाज्जज्ञे राजा चैडिविडो बली ॥ १८० आसीच्चैडिविडः श्रीमान्कृतशर्मा प्रतापवान् । पुत्रो विश्वमहत्तस्य पुत्रिकस्य व्यजायत ॥ १८१ दिलीप्तस्तस्य पुत्रोऽभूत्खट्वाङ्गद इति श्रुतिः । येन स्वर्गादिहाऽऽगम्य मुहूर्तं माप्य जीवितम् ॥ त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥ १८२ दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत । अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ॥ राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥ १८३ रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः । भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ १८४ माधवे लवणं हत्वा गत्वा मधुवनं च तत् । शत्रुघ्नेन पुरी तत्र मधुरा संनिवेशिता ॥ १८५ सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ । पालयामासतुः सुतौ वैदेह्यौ मधुरां पुरीम् ॥ १८६ अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्याऽऽत्मजावुभौ । हिमवत्पर्वताभ्यासे स्फीतौ जनपदो तयोः ॥ १८७ अङ्गदस्याङ्गदीया तु देशे कारपथे पुरी । चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्त्रा पुरी शुभा ॥ १८८ भरतस्याऽऽत्मजौ वीरौ तक्षः पुष्कर एव च । गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ॥ १८९ तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी । पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥ १९० गाथां चैवात्र गायन्ति ये पुराणविदो जनाः । रामे निबद्धास्तत्त्वार्था माहात्म्यात्तस्य धीमतः ॥ १९१