वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 347, कुल 465 में से
संदर्भ में पढ़ें३३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९३श्लो० २९-५०] ( चन्द्रवंशवर्णनम् )
जरावली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २९ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥ ३० अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता । सा च व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥ ३१ जराया बहवो दोषा यानभोजनकारिणः । तस्माज्जरां न ते राजन्गृहीतुमहमुत्सहे ॥ ३२ सितश्मश्रुधरो दीनो जरया शिथिलीकृतः । वलीसंततगात्रश्च दुर्दर्शो दुर्बलाकृतिः ॥ ३३ अशक्तः कार्यकरणे परिभूतस्तु यौवने । महोपभीतिभिश्चैव तां जरां नाभिकामये ॥ ३४ सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ ३५ स एवमुक्तो यदुना तीव्रकोपसमन्वितः । उवाच वदतां श्रेष्ठो ज्येष्ठं तं गर्हयन्सुतम् ॥ ३६ आश्रमः कश्च वाऽन्योऽस्ति को वा धर्मविधिस्तव । मामनादृत्य दुर्बुद्धे यदात्थ नवदेशिक ॥ ३७ एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् । यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ ३८ तस्मान्न राज्यभाङ्गूढ प्रजा ते वै भविष्यति । तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥ ३९ (*यौवनेन चरेयं वै विषयांस्तव पुत्रक । पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥ स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ४०
तुर्वसुरुवाच- न कामये जरां तात कामभोगप्रणाशिनीम् । जराया बहवो दोषाः पानभोजनकारिणः ॥ तस्माज्जरां न ते राजन्गृहीतुमहमुत्सहे ॥ ४१
ययातिरुवाच- यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेद्यं तुर्वसो तव यास्यति ॥ ४२ असंकीर्णा च धर्मेण प्रतिलोमवरेषु च । पिशिताशिषु चान्येषु मूढ राजा भविष्यसि ॥ ४३ गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा । पशुधर्मेषु म्लेच्छेषु भविष्यसि न संशयः ॥ ४४
सूत उवाच- एवं तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं द्रुह्यमिदं वचनमब्रवीत् ॥ ४५ द्रुह्य त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं वै यौवनं स्वं ददस्व मे ॥ ४६ पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् । स्वं चाऽऽदास्यामि भूयोऽहं पाप्मानं जरया सह ॥ ४७
द्रुह्य उवाच- न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । न सङ्गश्वास्य भवति न जरां तेन कामये ॥ ४८
ययातिरुवाच- यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥ नौप्लवोत्तरसंचारस्तत्र नित्यं भविष्यति । अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ॥ ५०
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।