भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 390, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 390

[अ० ९९ श्लो० २८०-३०६] वायुपुराणम् । ३८१

(तुर्वस्वादिवंशकथनम्)
धीमतः पाण्डुपुत्रस्य अर्जुनस्य महात्मनः । अत ऊर्ध्वं प्रवक्ष्यामि इक्ष्वाकूणां महात्मनाम् ॥ २८०
बृहद्रथस्य दायादो वीरो राजा बृहत्क्षयः । ततः क्षयः सुतस्तस्य वत्सव्यूहस्ततः क्षयात् ॥ २८१
वत्सव्यूहात्प्रतिव्यूहस्तस्य पुत्रो दिवाकरः । यश्च सांप्रतमध्यास्ते अयोध्यां नगरीं नृपः ॥ २८२
दिवाकरस्य भविता सहदेवो महायशाः । सहदेवस्य दायादो बृहदश्वो भविष्यति ॥ २८३
तस्य भानुरथो भाव्यः प्रतीताश्वश्च तत्सुतः । प्रतीताश्वसुतश्चापि सुप्रतीतो भविष्यति ॥
सहदेवः सुतस्तस्य सुनक्षत्रश्च तत्सुतः ॥ २८४
किंनरस्तु सुनक्षत्राद्भविष्यति परंतपः । भविता चान्तरिक्षस्तु किंनरस्य सुतो महान् ॥ २८५
अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित् । पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः ॥ २८६
पुत्रः कृतंजयो नाम धर्मिणः स भविष्यति । कृतंजयसुतो व्रातो तस्य पुत्रो रणंजयः ॥ २८७
भविता संजयश्चापि वीरो राजा रणंजयात् । संजयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ॥
शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः । प्रसेनाजित्ततो भाव्यः क्षुद्रको भविता ततः ॥ २८९
क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः । सुमित्रः सुरथस्यापि अन्त्यश्च भवति नृपः ॥
एत ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे । बृहद्वलान्वये जाता भवितारः कलौ युगे ॥
शूराश्च कृतविद्याश्च सत्यसंधा जितेन्द्रियाः ॥ २९१
अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः । इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ॥ २९२
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । इत्येन्मानवं क्षत्रमैलं च समुदाहृतम् ॥ २९३
अत ऊर्ध्वं प्रवक्ष्यामि मागधेपान्बृहद्रथान् । जरासंधस्य ये वंशे सहदेवान्वये नृपाः ॥ २९४
अतीता वर्तमानाश्च भविष्याश्च तथा पुनः । प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ॥ २९५
सङ्ग्रामे भारते तस्मिन्सहदेवो निपातितः । सोमाधिस्तस्य तनयो राजर्षिः स गिरिव्रजे ॥ २९६
पञ्चाशतं तथाऽष्टौ च समा राज्यमकारयत् । श्रुतश्रवाश्चतुःषष्टिसमास्तस्य सुतोऽभवत् ॥ २९७
अयुतायुस्तु षड्विंशं राज्यं वर्षाण्यकारयत् । समाः शतं निरामित्रो महीं भुक्त्वा दिवं गतः ॥
पञ्चाशतं समाः षट् च सुंक्षत्तः प्राप्तवान्महीम् । त्रयोविंशं बृहत्कर्मा राज्यं वर्षाण्यकारयत् ॥ २९९
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः । श्रुतंजयस्तु वर्षाणि चत्वारिंशद्भविष्यति ॥ ३००
महाबलो महाबाहुर्महाबुद्धिपराक्रमः । पञ्चविंशत्तु वर्षाणि महीं पालयिता नृपः ॥ ३०१
अष्टपञ्चाशतं चाब्दान्राज्ये स्थास्यति वै शुचिः । अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ॥
भुवतस्तु चतुःषष्टी राज्यं प्राप्स्यति वीर्यवान् । पञ्चवर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ॥ ३०३
भोक्ष्यते नृपतिश्चैव अष्टपञ्चाशतं समाः । अष्टत्रिंशत्समा राज्ये सुव्रतस्य भविष्यति ॥ ३०४
[* चत्वारिंशदष्टाष्टौ च दृढसेनो भविष्यति । त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ॥ ३०५
द्वाविंशतिसमा राज्यं सुचलो भोक्ष्यते ततः] । चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥ ३०६

* एतच्चिह्नान्तर्गतग्रन्थो न विद्यते ख. ग. पुस्तकयोः ।

वायु पुराण · पृष्ठ 390, कुल 465 में से · BharatKosha