भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 397, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 397

३८८ श्रीमद्द्वैपायनमुनिप्रणीतम्-[अ०९९-१००श्लो०४५८-४६४।१-१३] ( मन्वन्तरनिसर्गादिकथनम् )

न शक्यं विस्तरं तेषां संतानानां परम्परा । तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ॥ ४५८ अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे । एता राजर्षिभिः सार्धं शिष्टा यास्ता निबोधत ॥ ४५९ चत्वारिंशच्च ये चैव भविष्याः सह राजभिः । युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ॥ ४६० एतद्वः कथितं सर्वं समासव्यासयोगतः । पुनरुक्तं बहुतवाच्च न शक्यं तु युगैः सह ॥ ४६१ एते ययातिपुत्राणां पञ्चविंशा विशां हिताः । कीर्तिता ह्यमिता ये ये लोकान्वै धारयन्त्युत ॥ ४६२ लभते च वरान्पञ्च दुर्लभानिह लौकिकान् आयुः कीर्तिं धनं पुत्रान्स्वर्गं चाऽऽनन्त्यमश्नुते ॥ ४६३ धारणाच्छ्रवणाच्चैव ते लोकान्धारयन्त्युत । इत्येष वो मया पादस्तृतीयः कथितो द्विजाः ॥ विस्तरेणाऽऽनुपूर्व्या च किं भूयो वर्तयान्महम् ॥ ४६४

इति श्रीमहापुराणे वायुप्रोक्ते तुर्वस्वादि वंशवर्णनं नाम नवनवतितमोऽध्यायः ॥ ९८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-९५१४ इत्युपोद्घातपादस्तृतीयः ।

अथ उपसंहारपादः । अथ शततमोऽध्यायः । मन्वन्तरनिसर्गवर्णनम् ।

श्रुत्वा पादं तृतीयं तु क्रान्तं सूतेन धीमता । ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥ १ ऋषय ऊचुः- पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया । चतुर्थं विस्तरात्पादं संहारं परिकीर्तय ॥ २ मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह । सप्तर्षीणामथैतेषां सांप्रतस्यान्तरे मनोः ॥ ३ विस्तरावयवं चैव निसर्गस्य महात्मनः । विस्तरेणाऽऽनुपूर्व्या च सर्वमेव ब्रवीहि मे ॥ ४ सूत उवाच- भवतां कथयिष्यामि सर्वमेतद्यथातथम् । पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥ ५ मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः । विस्तरेणाऽऽनुपूर्व्या च निसर्गं शृणुत द्विजाः ॥ ६ मन्वंतराणां संक्षेपं भविष्यैः सह सप्तभिः । प्रलयं चैव लोकानां ब्रुवतो मे निबोधत ॥ ७ एतान्युक्तानि वै सम्यक्सप्तसप्तसु वै मया । मन्वन्तराणि संक्षेपाच्छृणुतानागतानि मे ॥ ८ सावर्ण्यस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह । भाव्यष्यस्य भविष्यन्ति समासात्तन्निबोधत ॥ ९ अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः । कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः ॥ १० द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा । आत्रेयो दीप्तिमांश्चैव ऋष्यशृङ्गस्तु काश्यपः ॥ ११ भारद्वाजस्तथा द्रोणिरश्वत्थामा महायशाः । एते सप्त महात्मानो भविष्याः परमर्षयः ॥ १२ सुतपाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः । तेषां गणास्तु देवानामेकैको विंशकः स्मृतः ॥ १३