वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 432, कुल 465 में से
संदर्भ में पढ़ें[अ०१०४ श्लो० १९-४७] वायुपुराणम्। ४२३ (व्याससंशयापनोदनम्)
सूत उवाच— शृणु शौनक वक्ष्यामि प्रश्नमेनं सुदुर्लभम्। अतिगोप्यतरं दिव्यमनाख्यंयं प्रचक्षते ॥ १९ पराशरसुतो व्यासः कृत्वा पौराणिकीं कथाम्। सर्ववेदार्थघटितां चिन्तयामास चेतसि ॥ २० वर्णाश्रमवतां धर्मो मया सम्यगुदाहृतः। मुक्तिमार्गा बहुविधा उक्ता वेदाविरोधतः ॥ २१ जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये। निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ॥ २२ अक्षरं परमं ब्रह्म परमात्मा परं पदम्। यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ॥ २३ आचरन्ति महाप्राज्ञा धारणां च पृथग्विधाम्। आसनं प्राणरोधश्च प्रत्याहारश्च धारणा ॥ २४ ध्यानं समाधिरेतानि यमैश्च नियमैः सह। अष्टाङ्गानि यदर्थं च चरन्ति मुनिपुङ्गवाः ॥ २५ यदर्थं कर्म कुर्वन्ति वेदाज्ञामात्रतत्पराः। परार्पणधिया सम्यग्निष्कामाः कलिलोज्झिताः ॥ २६ मज्ज्ञानेये निराकर्तुं पापाचरणमात्मनः। गङ्गादितीर्थचर्याणि निषेवन्ते शुचिव्रताः ॥ २७ तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम्। नित्यं सर्वगतं स्थाणु कूटस्थं कूटवर्जितम् ॥ २८ सर्वेन्द्रियचराभासं प्राकृतोन्द्रियवर्जितम्। दिक्कालायनवाच्छिन्नं नित्यं चिन्मात्रमव्ययम् ॥ २९ अध्यास्तं सर्ववद्यत्र विश्वमेतत्प्रकाशते। विश्वस्मिन्नपि चान्वेति निर्विकारं च रज्जुवत् ॥ ३० सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्। तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ॥ ३१ सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः। यस्माद्भवन्ति ब्रह्माण्डकोटयो न भवन्ति च ॥ ३२ यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ। भवेतां या परा शक्तिर्यदाधारतया स्थिता ॥ ३३ यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्। यदज्ञानाज्जगद्भाति यस्मिन्ज्ञाते जगन्न हि ॥ ३४ असत्यं यज्जडं दुःखं अवास्त्विति निरूपितम्। विपरीतमतो यद्वै सच्चिदानन्दमूर्तिकम् ॥ ३५ जीवे जाग्रति विध्याख्यं स्वप्ने यत्तैजसं स्मृतम्। सुषुप्तौ प्राज्ञसंज्ञं यत्सर्वावस्थासु संस्मृतम् ॥ ३६ यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमप्यति। त्वक्त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ॥ ३७ बुद्धिज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्। यन्नेशिरे समभ्येतुं ज्ञातुं च परमार्थतः ॥ ३८ रज्जावहिर्मरौ वारि नीलिमा गगने यथा। असिद्धिमथेदं भाति यस्मिन्नज्ञानकल्पितम् ॥ ३९ घटावाच्छिन्न एवायं महाकाशो विभिद्यते। कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसंज्ञकम् ॥ ४० मायया चित्रकारिण्या विचित्रगुणशालिया। ब्रह्माण्डं चित्रमतुलं यस्मिन्भित्ताविवार्पितम् ॥ ४१ धावतोऽन्यानतिक्रान्तं वदतो वाग्गोचरम्। वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ॥ ४२ अक्षरान्न परं किंचित्सा काष्ठा सा परा गतिः। इत्येवं श्रूयते वेदे बहुधाऽपि विचारिते ॥ ४३ अक्षरस्याऽऽत्मनश्चापि स्वात्मरूपतया स्थितम्। परमानन्दसंदोहरूपमानन्दविग्रहम् ॥ ४४ लीलाविडासरासिकं बलपीयूथ मध्यगम्। शिखिपिच्छाकिरीटेन भास्वद्रत्नचितेन च ॥ ४५ उल्लसद्विद्युदाटोपकुण्डलाभ्यां विराजितम्। कर्णोपान्तचरन्नेत्रखञ्जरीटमनोहरम् ॥ ४६ कुञ्जकुञ्जप्रियावृन्दाविलासरातिलम्पटम्। पीताम्बरधरं दिव्यं चन्दनालेपमण्डितम् ॥ ४७