भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 437, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 437

४२८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०५-१०६श्लो०३२-४९।१] ( गयामाहात्म्यम् )

पदे पदेऽश्वमेधस्य यत्फलं गच्छतो गयाम् । तत्फलं च भवेन्नूनं समग्रं नात्र संशयः ॥ ३२ पायसेनापि चरुणा सक्तुना पिष्टकेन वा । तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ॥ ३३ तिलकल्केन खण्डेन गुडेन सघृतेन वा । केवलेनैव दध्ना वा ऊर्जेन मधुनाऽथ वा ॥ ३४ पिण्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत । इज्यते वाऽऽसर्वं भोज्यं हविष्यान्नं मुनीरित्रम् ॥ ३५ एकतः सर्ववस्तूनि रसवन्ति मधूनि हि । स्मृत्वा गदाधराङ्कस्थञ्चं फल्गुतीर्थाम्बु चैकतः ॥ ३६ *पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम् । दक्षिणा चान्नसंकल्पस्तीर्थश्राद्धेष्वयं विधिः ॥ ३७ नाऽऽवाहनं न दिग्वन्धो न दोषो दृष्टिसंभवः । सकारुण्येन कर्तव्यं तीर्थश्राद्धं विचक्षणैः ॥ ३८ अन्यत्राऽऽवाहिताः काले पितरो यान्त्यमुं पति । तीर्थे सदा वसन्त्येन तस्मादावाहनं न हि ॥ ३९ तीर्थश्राद्धं प्रयच्छाद्भिः पुरुषैः फलकाङ्क्षिभिः । कामं क्रोधं तथा लोभं त्यक्त्वा कार्या क्रियाऽनिशम् ब्रह्मचर्य्येकभोजी च भूशायी सत्यवाक्शुचिः । सर्वभूतहिते रक्तः स तीर्थफलमश्नुते ॥ ४१ तीर्थान्यनुसरन्धीरः पाषण्डं पूर्वतस्त्यजेत् ) पाषण्डः स च विज्ञेयो यो भवेत्कामकारकः ॥ ४२ तीर्थेषु ये नराः धीराः कर्म कुर्वन्ति तद्गताः । यथा ब्रह्मविदो वेद्यं वस्तु चानन्यचेतसः ॥ प्रविशन्ति परेशाख्यं ब्रह्म बलपरायणाः ॥ ४३ [ + याऽऽस्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता ( साऽवतीर्णा गयाक्षेत्रे पितॄणां तारणाय वै ॥ स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत् ॥ ४४ तथाऽक्षयवटं गत्वा विप्रान्संतोषयिष्यति । ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्चयेत् ॥ तैस्तुष्टैस्तोपिताः सर्वाः पितृभिः सह देवताः ॥ ४५ × गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते । सांनिध्यं सर्वतीर्थानां गयातीर्थं ततो वरम् ॥४६ मीने मेषे स्थिते सूर्ये कन्यायां कार्मुके घटे । = गयायां दुर्लभं लोके वदन्ति ऋषयः सदा ॥ दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ ४७ मकरे वर्तमाने च ग्रहणे चन्द्रसूर्ययोः । दुर्लभं त्रिषु लोकेषु गयाश्राद्धं सुदुर्लभम् ॥ ४८ गयायां पिण्डदानेन यत्फलं लभते नरः । न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ ४९ इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम पञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥

आदितः श्लोकानां समष्ट्यङ्काः-१०४८२


अथ षडधिकशततमोऽध्यायः । गयामाहात्म्यम् ।

नारद उवाच-- मयासुरः कथं जातः किंप्रभावः किमात्मकः । तपस्तप्तं कथं तेन कथं देहपवित्रता ॥ १


*इत आरभ्य विचक्षणैरित्यन्तं ग्रन्थव्यत्यासः ख.पुस्तके । +धनुश्चिह्नान्तर्गतग्रन्थः ख.पुस्तके नास्ति । × इतः प्रभृति सुदुर्लभमित्यन्तं ग्रन्थव्यत्यासः ख. पुस्तके वर्तते । = इदमर्धं नास्ति क. पुस्तके ।

वायु पुराण · पृष्ठ 437, कुल 465 में से · BharatKosha