भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 44, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 44

[अ० १० श्लो० १] वायुपुराणम् । ३५ ( मन्वन्तरवर्णनम् )

भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः । शिरसोऽङ्गिरसं चैव श्रोत्रादत्रिस्तथैव च ॥ १०१ पुलस्त्यं च तथोदानाद्व्यानाच्च पुलहं पुनः । समानजं वशिष्ठं तु अपानान्निर्ममे क्रतुम् ॥ १०२ अभिमानात्मकं भद्रं निर्ममे नीललोहितम् । इत्येते ब्रह्मणः पुत्राः प्राणजा द्वादश स्मृताः ॥ १०३ इत्येते मानसाः पुत्रा विज्ञेया ब्रह्मणः सुताः । भृग्वादयस्तु ये सृष्टा नवैते ब्रह्मवादिनः ॥ १०४ गृहमेधिनः पुराणास्ते धर्मस्तैः प्राक्प्रवर्तितः । द्वादशैते प्रवर्तन्ते सह रुद्रेण वै प्रजाः ॥ १०५ ऋभुः सनत्कुमारस्तु द्वावेतावृर्ध्वरेतसौ । पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ ॥ १०६ व्यतीते प्रथमे कल्पे पुराणे लोकसाधकौ । वैराजे तावुभौ लोके तेजः संक्षिप्य चाऽऽस्थितौ ॥ १०७ तावुभौ योगधर्माणामारोप्याऽऽत्मानमात्मनि । प्रजाधर्मं च कामं च वर्तयेतां महौजसौ ॥ १०८ यथोत्पन्नस्तथैवेह कुमार इति चोच्यते । तस्मात्सनत्कुमारोऽयमिति नामास्य कीर्तितम् ॥ १०९ तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः । क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ॥ ११० इत्येष करणोद्भूतो लोकान्सृष्टुं स्वयंभुवः । महदादिविशेषान्तो विकारः प्रकृतेः स्वयम् ॥ १११ चन्द्रसूर्यप्रभालांको ग्रहनक्षत्रमण्डितः । नदीभिश्च समृद्धैश्च पर्वतैश्च समावृतः ॥ ११२ पुरैश्च विविधाकारैः प्रीतैर्जनपदैस्तथा । तस्मिन्ब्रह्मवनेऽव्यक्ते ब्रह्मा चरति शर्वरीम् ॥ ११३ अव्यक्तबीजप्रभवस्तस्यैवानुग्रहोत्थितः । बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः ॥ ११४ महाभूतप्रशाखश्च विशेषैः पत्रवांस्तथा । धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः ॥ ११५ आजीवः सर्वभूतानामयं वृक्षः सनातनः । एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य ह ॥ ११६ अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम् । इत्येषोऽनुग्रहः सर्गो ब्रह्मणः प्राकृतस्तु यः ॥ ११७ मुख्यादयस्तु षट्सर्गा वैकृता बुद्धिपूर्वकाः । त्रैकाले समवर्तन्त ब्रह्मणस्तेऽभिमानिनः ॥ ११८ सर्गाः परस्परस्याथ कारणं ते बुधैः स्मृताः । दिव्यौ सुपर्णौ सयुजौ सशाखौ पटाविद्रुमौ ॥ एकस्तु यो द्रुमं वेत्ति नान्यः सर्वात्मनस्ततः ॥ ११९ द्यौर्मूर्धानं यस्य विप्राः स्तुवन्ति खं नाभिर्वै चन्द्रसूर्यौ च नेत्रे ॥ दिशः श्रोत्रे चरणौ चास्य भूमिः सोऽचिन्त्यात्मा सर्वभूतप्रसूतिः ॥ १२० वक्त्रादस्य ब्राह्मणाः संप्रसूता यद्वक्षस्तः क्षत्रियाः पूर्वभागे ॥ वैश्याश्चोरोर्यस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ १२१ महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाज्जज्ञे पुनर्ब्रह्मा येन लोकाः कृतास्त्विमे ॥ १२२

इति श्रीमहापुराणे वायुप्रोक्ते देवादिसृष्टिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥ आदितः श्लोकानां समष्ट्यङ्काः--९०८

अथ दशमोऽध्यायः ।

मन्वन्तरवर्णनम् ।

सूत उवाच-- एवं भूतेषु लोकेषु ब्रह्मणा लोककर्तृणा । यदा ता न प्रवर्तन्ते प्रजाः केनापि हेतुना ॥ १

वायु पुराण · पृष्ठ 44, कुल 465 में से · BharatKosha