वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 448, कुल 465 में से
संदर्भ में पढ़ें[अ०१०८श्लो०६१-८५] वायुपुराणम् । ४३९ ( गयामाहात्म्यन ) शियाला वामहस्तेऽपि गृध्रकूटो गिरिर्धृतः । ] गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ॥ ६१ अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः । दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छंभोः पदं नरः ॥ ६२ तत्र गृध्रे गुहायां च पिण्डदः शिवलोकभाक् । तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ॥ ६३ ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् । शूलक्षेत्रं च तत्राऽऽस्ते पिण्डदः स्वनयेत्पितॄन् ॥ ६४ तं दृष्ट्वा मुच्यते विघ्नैः पितॄन्ब्रह्मपुरं नयेत् ॥ ६५ नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत् । मुण्डपृष्ठाराविन्दाद्री दृष्ट्वा पापं विनाशयेत् ॥ गयानाभौ सुषुम्नायां पिण्डदः स्वनयेत्पितॄन् ॥ ६६
- शिलाया वामपादे तु स्थापितः प्रेतपर्वतः । धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ॥ ६७ पादेन दूरे निक्षिप्तः शिलायाः पादभारतः । गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ॥ ६८ प्रेतकुण्डं च तत्राऽऽस्ते देवास्तत्र पदे स्थिताः । तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ॥ ६९ पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते । श्राद्धाधिकारिणां नृणां तीर्थे पितृविमुक्तये ॥ ७० प्रेता धानुष्करूपेण करग्रहणकारकाः ॥ पादाङ्कितां मुण्डपृष्ठां महादेवन्निवासिनीम् । तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ] ॥ ७१ गयाशिरसि पुण्ये च सर्वपापविवर्जिते । प्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ॥ ७२ कीकटेषु गया पुण्या पुण्यं राजगृहं वनम् । च्यवनस्याऽऽश्रमं पुण्यं नदी पुण्या पुनःपुना ॥ ७३ वैकुण्ठो लोहदण्डश्च गृध्रकूटश्च शौनकः । अत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् । ७४ क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत् । तस्य पादाङ्कितो यस्मात्क्रौञ्चपादस्ततः स्मृतः ॥ ७५ स्नातो जलाशये तत्र नयेत्स्वर्गं स्वकं कुलम् । बलिः काकशिलायां च काकेभ्य ऋणमोक्षदः ॥ ७६ मुण्डपृष्ठस्य सानौ हि लोमशो लोमहर्षणः । द्वावेतौ परमं तप्त्वा तपस्सिद्धिं परां गतौ ॥ ७७ आहुतास्तु सरिच्छ्रेष्ठा लोमशेन महानदी । शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ७८ कावेरी सिन्धुरीरा च चन्दना च सारिद्वरा । वासिष्ठी सरयूगंङ्गा यमुना गण्डकीन्दिरा ॥ ७९ महावैतरणी नाम्ना निश्चेरा च दिवौकसः । सावव्यलकनन्दा (?) च उदीची कनकाह्वया ॥ ८० कौशिकी ब्रह्मदा ज्येष्ठा सर्वस्याघविमोचिनी । कृष्णवेण्या चर्मवती द्वे नद्यौ मुक्तिदायिके ॥ ८१ आहूते सरितां श्रेष्ठे लोमहर्षेण साहसात् । तपसस्तु प्रभावेण नर्मदा मुनिपुङ्गव ॥ तासु सर्वासु यः स्नात्वा पिण्डदः स्वनयेत्पितॄन् ॥ ८२ ब्रह्मयोनिं प्रविश्याय निर्गच्छेदद्यस्तु मानवः । परं ब्रह्म स यातीह विमुक्तो योनिसंकटात् ॥ ८३ निश्चरायां पुष्करिण्यां स्नातः श्राद्धादिकं नरः । कुर्यात्क्रौञ्चपदे दिव्ये नियमाद्द्वासप्तत्रयम् * ॥ सर्वान्पितॄन्नयेत्स्वर्गं पञ्च पापिन एव च ॥ ८४ जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः । आत्मनोऽप्यथवाऽन्येषां सव्येनापि तिलैर्विना ॥ जीवतां दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ॥ ८५
* इतःपरमयं श्लोकोधिकः ख. पुस्तके-श्राद्धं सपिण्डकं कृत्वा पितॄन्ब्रह्मपुरं नयेत् । जनार्दना- मेषाय समभ्यर्च्य यथाविधि ॥ इति ।