वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 455, कुल 465 में से
संदर्भ में पढ़ें४४६ श्रीमद्वैपायनमुनिप्रणीतम् - [अ० १११ श्लो० ३-२३] ( गयामाहात्म्यम् )
सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये । \times स्नानार्थं तर्पणं कृत्वा श्राद्धं कुर्यात्सपिण्डकम् ॥ ३ मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् । सूर्यं नत्वाऽर्चयित्वाऽथ सूर्यलोकं नयेत्पितॄन् ॥ ४ नमो भगवते भर्त्रे सोमभौमज्ञरूपिणे । जीवभार्गवसौरेयराहुकेतुस्वरूपिणे ॥ ५ उत्तरान्मानसान्मौनी व्रजेद्दक्षिणमानसम् । उदीचीतीर्थमित्युक्तं तत्रौदीच्यं विमुक्तिदम् ॥ अत्र स्नातो दिवं याति स्वशरीरेण मानवः ॥ ६ मध्ये कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् । स्नातः कनकवद्भाति नरो याति पवित्रताम् ॥ ७ तस्य दक्षिणभागे च तीर्थं दक्षिणमानसम् । दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम् ॥ ८ स्नात्वा तेषु विधानेन कुर्याच्छ्राद्धं पृथक्पृथक् । दक्षिणे मानसे स्नानं करोम्यात्मविशुद्धये ॥ ९ सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये । ब्रह्महत्यादिपापौघयातनाया विमुक्तये ॥ १० दिवाकर करोमीह स्नानं दक्षिणमानसे । * सूर्यं नत्वाऽर्चयित्वा च सूर्यलोकं नयेत्पितॄन् ॥ ११ नमामि सूर्यं तृप्त्यर्थं पितॄणां तारणाय च । पुत्रपौत्रधनैश्वर्याद्याऽऽयुरारोग्यवृद्धये + ॥ १२ फल्गुतीर्थं व्रजेत्तस्मात्सर्वतीर्थोत्तमोत्तमम् । मुक्तिर्भवति कर्तॄणां पितॄणा श्राद्धतः सदा ॥ १३ ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा । दक्षिणाग्नौ हुतं तत्र तद्रजः फल्गुतीर्थकम् ॥ \odot १४ तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि । तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ॥ १५ गङ्गा पादोदकं विष्णोः फल्गुर्ह्रादिगदाधरः । स्वयं हि द्रवरूपेण तस्माद्गङ्गाधिकं विदुः ॥ १६ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ॥ १७ \div फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत् । सपिण्डकं स्वसूत्रोक्तं नमेदथ पितामहम् ॥ १८ नमः शिवाय देवाय ईशाय पुरुषाय वै । अघोरवामदेवाय सद्योजाताय शंभवे ॥ १९ फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् । आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ॥ २० नत्वा गदाधरं देवं मन्त्रेणानेन पूजयेत् । ओं नमो वासुदेवाय नमः संकर्षणाय च ॥ प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे ॥ २१ पञ्चतीर्थे नरः स्नात्वा ब्रह्मलोकं नयेत्पितॄन् । अमृतैः पञ्चभिः स्नानं पुष्पवस्त्राद्यलंकृतम् ॥ न कुर्याद्यो गदापाणेस्तस्य श्राद्धं निरर्थकम् ॥ २२ नागकूटाद्गृध्रकूटाद्यूपानुत्तरमानसात् \surd । एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ २३
\times पाठः-एतदर्थस्थानेऽयं देवाद्दींस्तर्पयित्वाऽथ श्राद्धं कृत्वा सापिण्डकम् । इति ख. पुस्तके ।
* इदमर्धं न क पुस्तके । + एतदग्रेऽयं श्लोकः क. पुस्तके टिप्पण्याम्-अनेन स्नानदानादि कृत्वा श्राद्धं सपिण्डकम् । कृत्वा नत्वा च मौन्यंर्कमिमं मन्त्रमुदीरयेत् । एतदग्रे इदमर्धम्-एतत्तीर्थ-त्रये मौनी स्नानश्राद्धादिकं चरेत् । इति ख. पुस्तके । \odot इत उत्तरमयं श्लोको वर्तते क. पुस्तक-टिप्पण्याम्-तस्मिन्फलति फल्ग्वा गौः कामधेनुर्जलं मही । दृष्टेरन्तर्गतं यस्मात्फल्गुतीर्थं न निष्फलम् इति । \div फल्गुतीर्थे नरः स्नात्वा इत्यस्मात्प्राक् क. पुस्तके टिप्पण्यामधिक एकः श्लोको वर्तते स यथा,-फल्गुतीर्थे विष्णुजले करोमि स्नानमादृतः । पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये इति । \surd एतच्छ्लोकपरतः क पुस्तकटिप्पण्यामधिके श्लोका विद्यते स यथा,-मुण्डपृष्ठनगाधस्तात्फल्गु-तीर्थमनुत्तमम् । अत्र श्राद्धादिना सर्वे पितरो मोक्षमाप्नुयुः । इति ।