वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 48, कुल 465 में से
संदर्भ में पढ़ें[अ०११श्लो० १-१४] वायुपुराणम् । ३९ ( पाशुपतयोगः )
परिधाय मनो मन्दं वश्यत्वं चाधिगच्छति । परिधाय मनोदेवं तथा जीवति मारुतः ॥ ८६ वश्यत्वं हि यथा वायुर्गच्छते योगमास्थितः । तदा स्वच्छन्दतः प्राण नयते यत्र चेच्छति ॥ ८७ यथा सिंहो गजो वाऽपि वश्यत्वादवतिष्ठते । अभयाय मनुष्याणां मृगेभ्यः संप्रवर्तते ॥ ८८ यथा परिचितश्चायं वायुर्वे विश्वतोमुखः । परिध्यायमानः संरुद्धः शरीरे किल्विषं दहेत् ॥ ८९ प्राणायामेन युक्तस्य विप्रस्य नियमात्मनः । सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ॥ ९० तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये । सर्वयज्ञफलं चैव प्राणायामश्च तत्समः ॥ ९१ अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्रुते । संवत्सरशतं साग्रं प्राणायामं च तत्समम् ॥ ९२ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वरान्गुणान् ॥ ९३ तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ॥ ९४ इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगे मन्वन्तरादिवर्णनं नाम दशमोऽध्यायः ॥ १० ॥ आदितः श्लोकानां समष्ट्यङ्काः- १००२
अथैकादशोऽध्यायः ।
पाशुपतयोगः ।
+वायुरुवाच-- एकं महान्तं दिवसमहोरात्रमथापि वा । अर्धमासं तथा मासमयनाद्द्वयुगानि च ॥ १ महायुगसहस्राणि ऋशयस्तपसि स्थिताः । उपासते महात्मानः प्राणं दिव्येन चक्षुषा ॥ २ अत ऊर्ध्वं प्रवक्ष्यामि प्राणायामप्रयोजनम् । फलं चैव विशेषेण यथाऽऽह भगवान्प्रभुः ॥ ३ प्रयोजनानि चत्वारि प्राणायामस्य विद्धि वै । शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च चतुष्टयम् ॥ ४ घोराकाराशिवानां तु कर्मणां फलसंभवम् । स्वयंकृतानि कालेन इहामुत्र च देहिनाम् ॥ ५ पितृमातृप्रदुष्टानां ज्ञातिसंबन्धिसंकरैः । क्षपणं हि कषायाणां पापानां शान्तिरुच्यते ॥ ६ लोभमानात्मकानां हि पापानामपि संयमः । इहामुत्र हितार्थाय प्रशान्तिस्तप उच्यते ॥ ७ सूर्येन्दुग्रहताराणां तुल्यस्तु विषयो भवेत् । ऋषीणां च प्रसिद्धानां ज्ञानविज्ञानसंपदाम् ॥ ८ अतीतानागतानां च दर्शनं सांप्रतस्य च । बुद्धस्य समतां यान्ति दीप्तिः स्मान्तप उच्यते ॥ ९ *इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च च मारुतान् । प्रसादयति येनासौ प्रसाद इति संज्ञितः ॥ १० इत्येष धर्मः प्रथमः प्राणायामश्चतुर्विधः । (÷सांनिकृष्टफलो ज्ञेयः सद्यःकालप्रसादजः ॥ ११ अत ऊर्ध्वं प्रवक्ष्यामि प्राणायामस्य लक्षणम् । आसनं च यथा तत्त्वं युञ्जतो योगमेव च ॥ १२ ओंकारं प्रथमं कृत्वा चन्द्रसूर्यो नमस्य च । आसनं स्वस्तिकं कृत्वा पद्ममर्धासनं तथा ॥ १३ समजानुरेकजानुरुत्तानः सुस्थितोऽपि च । समो दृढासनो भूत्वा संहृत्य चरणावुभौ ॥ १४
+ख. पुस्तके सूत उवांचेति पाठः । *इदमर्धं नास्ति घ. पुस्तके । ÷धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।