भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 68, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 68

[अ०२३ श्लो० १९–४५] वायुपुराणम् । ५९

( माहेश्वरावतारयोगः )

धर्मयोगबलोपेता ऋषीणां दीर्घसत्रिणाम् । उपदिश्य तु ते योगं प्रविष्टा रुद्रमीश्वरम् ॥ १९
एवमेतेन विधिना प्रपन्ना ते महेश्वरम् । अन्येऽपि नियतात्मानो ध्यानयुक्ता जितेन्द्रियाः ॥ २०
ते सर्वे पापमुत्सृज्य विरजा ब्रह्मवर्चसः । प्रविशन्ति महादेवं रुद्रं ते त्वपुनर्भवाः ॥ २१

वायुरुवाच--

ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः । पुनरन्यः प्रवृत्तस्तु सितकल्पो हि नामतः ॥ २२
एकार्णवे तदा वृत्ते दिव्य वर्षसहस्रके । स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ २३
तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः । कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ॥ २४
अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम् । कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ॥ २५
कृष्णाम्बरधरोष्णीषं कृष्णयज्ञोपवीतिनम् । कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ॥ २६
स तं दृष्ट्वा महात्मानममरं घोरमन्त्रिणम् । ववन्दे देवदेवेशं विश्वेशं कृष्णपिङ्गलम् ॥ २७
प्राणायामपरः श्रीमान्हृदि कृत्वा महेश्वरम् । मनसा ध्यानसंयुक्तं प्रपन्नस्तु यतीश्वरम् ॥ २८
अघोरेति ततो ब्रह्मा ब्रह्म एवानुचिन्तयन् । एवं वै ध्यायतरतस्य ब्रह्मणः परमेष्ठिनः ॥ २९
मुमोच भगवान्रुद्रः अ(द्रुस्त्व)दृहादु महास्वनम् । अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः ॥ ३०
चत्वारस्तु महात्मानः संबभूवुः कुमारकाः । कृष्णाः कृष्णाम्बरोष्णीषाः कृष्णास्याः कृष्णवाससः ॥ ३१
तैश्चाट्टहासः सुमहान्हुंकारश्चैव पुष्कलः । नमस्कारश्च सुमहान्पुनः पुनरुदीरितः ॥ ३२
ततो वर्षसहस्रान्ते योगात्तत्पारमेश्वरम् । उपासित्वा महाभागाः शिष्येभ्यः प्रददुस्ततः ॥ ३३
योगेन योगसंपन्नाः प्रविश्य मनसा शिवम् । अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ॥ ३४
एवमेतेन योगेन ये चाप्यन्ये द्विजातयः । स्मरिष्यन्ति विधानज्ञा गन्तारो रुद्रमव्ययम् ॥ ३५
ततस्तस्मिन्गते कल्पे कृष्णरूपे भयानके । अन्यः प्रवर्तितः कल्पो विश्वरूपस्तु नामतः ॥ ३६
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे । ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः ॥ ३७
प्रादुर्भूता महानादा विश्वरूपा सरस्वती । विश्वमाल्याम्बरधरं विश्वयज्ञोपवीतिनम् ॥ ३८
विश्वोष्णीषं विश्वगन्धं विश्वस्थानं महाभुजम् । अथ तं मनसा ध्यात्वा मुक्तात्मा वै पितामहः ॥ ३९
ववन्दे देवमीशानं सर्वेशं प्रभुम् । ओमीशान नमस्तेऽस्तु महादेव नमोऽस्तु ते ॥ ४०
एवं ध्यानगतं तत्र प्रणमन्तं पितामहम् । उवाच भगवान्रीशः प्रीतोऽहं ते किमिच्छसि ॥ ४१
ततस्तु प्रणतो भूत्वा वाग्भिः स्तुत्वा महेश्वरम् । (*उवाच भगवान्ब्रह्मा प्रीतः प्रीतेन चेतसा ॥ ४२
यदिदं विश्वरूपं ते विश्वगं विश्वमीश्वरम् । ) एतद्वेदितुमिच्छामि कथायं परमेश्वरः ॥ ४३
कैषा भगवती देवी चतुष्पादा चतुर्मुखी । चतुःशृङ्गी चतुर्वक्त्रा चतुर्दन्ता चतुःस्तनी ॥ ४४
चतुर्हस्ता चतुर्नेत्रा विश्वरूपा कथं स्मृता । किंनामधेया कोऽस्यात्मा किंवीर्या वाऽपी कर्मतः ॥ ४५


* धनुश्चिह्नान्तर्गतग्रन्थो ख. घ. पुस्तकयोर्नास्ति ।

वायु पुराण · पृष्ठ 68, कुल 465 में से · BharatKosha