वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 71, कुल 465 में से
संदर्भ में पढ़ें६२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०२३श्लो०९२-११४] ( माहेश्वरावतारयोगः )
यस्माच्चैवमजा भूत्वा सर्ववर्णा महेश्वरी। दृष्टा त्वया महासत्त्वा सर्वभूतधरा परा ॥ ९२ तस्मात्तु विश्वरूपत्वमजानां वै भविष्यति । अजश्चैव महातेजा विश्वरूपो भविष्यति ॥ ९३ अमोघरेताः सर्वत्र मुखे चास्य हुताशनः । *तस्मात्सर्वगतो मेध्यः पशुरूपी हुताशनः ॥ ९४ तपसा भावितात्मानो ये वै द्रक्ष्यन्ति वै द्विजाः । ईशित्वे च शिवत्वे च सर्वगं सर्वतः स्थिरम् ॥ ९५ रजस्तमोविनिर्मुक्तास्त्यक्त्वा मानुष्यकं भुवि । तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ९६ इत्येवमुक्तो भगवाञ्ब्रह्मा रुद्रेण वै द्विजाः । प्रणम्य प्रयतो भूत्वा पुनराह पितामहः ॥ ९७
ब्रह्मोवाच-- भगवन्देवदेवेश विश्वरूपो(प) महेश्वरः(र) । इमास्तव महादेव तनवो लोकवन्दिताः ॥ ९८ विश्वरूप महासत्त्व कस्मिन्काले महाभुज । कस्यां वा युगसंभूत्यां द्रक्ष्यन्ति त्वां द्विजातयः ॥ ९९ केन वा तत्त्वयोगेन ध्यानयोगेन केन वा । तनवस्ते महादेव शक्या द्रष्टुं द्विजातिभिः ॥ १००
भगवानुवाच- तपसा नैव योगेन दानधर्मफलेन वा । न तीर्थफलयोगेन क्रतुभिर्वा सदक्षिणैः ॥ १०१ न वेदाध्यायनैर्वाऽपि न वित्तेन निवेदनैः । शक्योऽहं मानुषैर्द्रष्टुमृते ध्यानात्परं न हि ॥ १०२ साध्यो नारायणश्चैव विष्णुस्त्रिभुवनेश्वरः । भविष्यतीह नाम्ना तु वाराहो नाम विश्रुतः ॥ १०३ चतुर्बाहुश्चतुष्पादश्चतुर्नेत्रश्चतुर्मुखः । तदा संवत्सरो भूत्वा यज्ञरूपो भविष्यति ॥ षडङ्गश्च त्रिशीर्षश्च त्रिस्थानस्त्रिशरीरवान् ॥ १०४ कृतं त्रेता द्वापरं च कालिश्चैव चतुर्युगम् । एतस्य पादाश्चत्वारः अ(रञ्चा)ङ्गानि क्रतवस्तथा ॥ १०५ भुजाश्च वेदाश्चत्वार ऋतुः संधिमुखानि च । द्वे मुखे द्वे च अयने नेत्राश्च चतुरस्तथा ॥ १०६ शिरांसि त्रीणि पर्वाणि फाल्गुन्याषाढकार्तिकाः । दिव्यान्तरिक्षभौमानि त्रीणि स्थानानि यानि तु ॥ संभवः मलयश्चैव आश्रमौ द्वौ प्रकीर्तितौ ॥ १०७ स यदा कालरूपाभो वराहत्वे व्यवस्थितः । भविष्यति यदा साध्यो विष्णुर्नारायणः प्रभुः ॥१०८ तदा त्वमपि देवेश चतुर्वक्त्रो व्यवस्थितः । ब्रह्मलोकनमस्कार्यो विष्णुर्नारायणः प्रभुः ॥ १०९ एकार्णवे प्लवे चैव शयानं पुरुषं हरिम् । यदा द्रक्ष्यसि देवेशं ध्यानयुक्तं महामुनिम् ॥ ११० तदा वां मम योगेन मोहितौ नष्टचेतसौ । अन्योन्यस्पर्धिनौ रात्रावविज्ञाय परस्परम् ॥ १११ एकैकस्योदरस्थांस्तु दृष्ट्वा लोकांश्चराचरान् । विस्मयं परमं गत्वा ध्यानादुद्बुध्य तु मानुषौ ॥ ११२ ततस्त्वं पद्मसंभूतः पद्मनाभः सनातनः । पद्माङ्कितस्तदा कल्पे ख्यातिं यास्यसि पुष्कलाम् ॥ ११३ ततस्तस्मिंस्तदा कल्पे वाराहे सप्तमे प्रभोः । पुनर्विष्णुर्महातेजाः कालो लोकप्रकालनः मनुर्वैवस्वतो नाम तव पुत्रो भविष्यति ॥ ११४
* इदमर्धं नास्ति घ. ड. पुस्तकयोः ।