वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 79, कुल 465 में से
संदर्भ में पढ़ें| ७० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० २४ श्लो० ५८-८१] |
|---|---|---|
| ( शार्वस्तवः ) |
तेनेवमुक्तो भगवान्विष्णुर्ब्रह्माणमब्रवीन् । पद्भ्यां तलनिपातेन यस्य मिक्रमतोऽर्णवे ॥
वेगेन महताऽऽकाशे व्यथिताश्च जलाशयाः ॥ ५८
छटाभिर्विधतोऽत्यर्थं सिच्यते पद्मसंभवः । घ्राणजेन च वातेन कम्प्यमानं त्वया सह ॥
दोधूयते महापद्मं स्वच्छन्दं मम नाभिजम् ॥ ५९
स एष भगवान्नीशो ह्यनादिश्रान्तकृद्विभुः । भवानहं च स्तोत्रेण ह्युपतिष्ठाव गोध्वजम् ॥ ६०
ततः क्रुद्धोऽम्बुजाभास्कं ब्रह्मा प्रोवाच केशवम् । न भवान्प्रनमात्मानं लोकानां योनिमुत्तमम् ॥ ६१
ब्रह्माणं लोककर्त्तारं मां च वेत्सि सनातनम् । कोऽयं भोः शंकरो नाम ह्वावयोर्व्यतिरिच्यते ॥ ६२
तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत । मा मैवं वद कल्याण परिवादं महात्मनः ॥ ६३
मायायोगेश्वरो धर्मो दुराधर्षो वरप्रदः । हेतुरस्यात्र जगतः पुराणः पुरुषोऽव्ययः ॥ ६४
जीवः खल्वेष जीवानां ज्योतिरेकं प्रकाशते । बालक्रीडनकैर्र्देवः क्रीडते शंकरः स्वयम् ॥ ६५
प्रधानमव्ययं ज्योतिरव्यक्तं प्रकृतिस्तमः । अस्य चैतानि नामानि नित्यं प्रसवधर्मिणः ॥
यः कः स इति दुःखार्तैर्मृग्यते यतिभिः शिवः ॥ ६६
एष बीजी भवान्बीजमहं योनिः सनातनः । एवमुक्तोऽथ विश्वात्मा ब्रह्मा विष्णुमभाषत ॥ ६७
भवान्योनिरहं बीजं कथं बीजी महेश्वरः । एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ॥ ६८
ज्ञात्वा चैवं समुत्पत्तिं ब्रह्मणा लोकतन्त्रिणा । इदं परमसादृश्यं प्रक्षमभ्यवदद्धरिः ॥ ६९
अस्मान्महत्तरं गुह्यं भूतमन्यन्न विद्यते । महतः परमं धाम शिवमध्यात्मिनां पदम् ॥ ७०
द्वैधीभावेन चाऽऽत्मानं प्रविष्टस्तु व्यवस्थितः । निष्कलः सूक्ष्ममव्यक्तः सकलश्च महेश्वरः ॥ ७१
अस्य मायाविधिक्षस्य अगम्यगमनस्य च । पुरा लिङ्गं भवद्बीजं प्रथमं त्वादिसर्गिकम् ॥ ७२
मयि योनौ समायुक्तं तद्बीजं कालपर्ययात् । हिरण्ययमपारं तद्योन्याप्रण्डमजायत ॥ ७३
शतानि दश वर्षाणामण्डं चाप्सु प्रतिष्ठितम् । अन्ते वर्षसहस्रस्य वायुना तद्द्विधा कृतम् ॥ ७४
कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः । उल्बं तस्य महोत्सेधं योऽसौ कनकपर्वतः ॥ ७५
ततस्तस्मात्प्रबुद्धात्मा देवो देववरः प्रभुः । हिरण्यगर्भो भगवानहं जज्ञे चतुर्भुजः ॥ ७६
( * ततो वर्षसहस्रान्ते वायुना तद्द्विधा कृतम् । ) अतारार्केंन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च ॥
कोऽयमेत्यभिध्याते कुमारास्तेऽभवंस्तदा ॥ ७७
प्रियदर्शनास्तु तनवो(या) येऽतीताः पूर्वजास्तव । भूयो वर्षसहस्रान्ते तत एवाऽऽत्मजास्तव ॥
भुवनाननसंकाशाः पद्मपत्रायतेक्षणाः ॥ ७८
श्रीमान्सनत्कुमारस्तु ऋतुश्चैवोर्ध्वरेतसौ । सनातनश्च सनकस्तथैव च सनन्दनः ॥
उत्पन्नः समकालं ते बुद्ध्याऽतीन्द्रियदर्शनाः ॥ ७९
उत्पन्नाः प्रतिघात्मानो जगदुश्चैतदेव हि । नारप्स्यन्ते च कर्माणि तापत्रयविवार्जिताः ॥ ८०
अल्पसौख्यं बहुक्लेशं जराशोकसमन्वितम् । जीवितं मरणं चैव संभवं च पुनः पुनः ॥ ८१
* इदमर्धं नास्ति ख. ग. घ. पुस्तकेषु ।