वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
सदानन्द योगीन्द्र द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 150, कुल 314 में से
संदर्भ में पढ़ें१३६ वेदान्तसार चित्र-२३ साधनानि नित्य-अनित्य वस्तुविवेकः इहामुत्रार्थफलभोगविरागः शमादिषट्क मुमुक्षुत्व सम्पत्तिः नित्य अनित्य (ब्रह्म) (दृश्यमान जगतादि) (काल एवं स्थान की (कालस्थान की सीमाओं में अनाबद्ध) सीमाओं में आबद्ध) इह अमुत्र (दृश्यमान जगत् पृथ्वीलोकादि) (स्वर्गादि परलोकादि) विषयक फलभोगों के प्रति वैराग्य अवतरणिका-पूर्वोक्त साधनचतुष्टय में से शेष दो साधन शमादि षट्क सम्पत्ति एवं मुमुक्षुत्व की व्याख्या करते हुए आचार्य सदानन्द कहते हैं कि- शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः। शमस्तावच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः। दमो बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम्। निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिरथवा विहितानां कर्मणां विधिना परित्यागः। तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता। निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम्गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा। मुमुक्षुत्वं मोक्षेच्छा। एवम्भूतः प्रमाताधिकारी “शान्तो दान्त” इत्यादिश्रुतेः। पदच्छेद-शम-आदयः तु, शम-दम-उपरति-तितिक्षा-समाधान- श्रद्धा-आख्याः। शमः-तावत् श्रवण-आदिव्यतिरिक्तविषयेभ्यः मनसः निग्रहः। दमः-बाह्य-इन्द्रियाणाम् तद् व्यतिरिक्तविषयेभ्यः निवर्तनम्। निवर्तितानाम् एतेषाम् तद् व्यतिरिक्तविषयेभ्यः उपरमणम्-उपरतिः, अथवा विहितानाम् कर्मणाम् विधिना परित्यागः। तितिक्षा-शीतोष्ण-आदि द्वन्द्व-सहिष्णुता। निगृहीतस्य मनसः श्रवणादौ तद् अनुगुणविषये च-समाधि-समाधानम्। गुरु-उपदिष्ट-वेदान्तवाक्येषु विश्वासः श्रद्धा। मुमुक्षुत्वम्-मोक्षेच्छा। एवंभूतः प्रमाता-अधिकारी “शान्तो दान्तः” इत्यादि श्रुतेः॥