भारतकोश
वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

Vedantasara of Sadananda with Hindi Commentary

सदानन्द योगीन्द्र द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished314 पृष्ठ

पृष्ठ 247, कुल 314 में से

संदर्भ में पढ़ें
पृष्ठ 247

महावाक्यार्थ-निरूपण २३३ लक्ष्यलक्षणसम्बन्धस्तु यथा तत्रैव वाक्ये स शब्दांयशब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालविशिष्टत्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः। तथात्रापि वाक्ये तत्त्वम्पदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादि विशिष्टत्वपरित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः। इयमेव भागलक्षणेत्युच्यते॥२३॥ पदच्छेद-अथ महावाक्यार्थः वर्ण्यते। इदम् 'तत् त्वम् असि' इति वाक्यम् सम्बन्धत्रयेण अखण्डार्थबोधकम् भवति। सम्बन्धत्रयम् नाम पदयोः सामानाधिकरण्यम् पदार्थयोः विशेषणविशेष्यभावः प्रत्यक् आत्मलक्षणयोः लक्ष्यलक्षणभावः च इति। तद् उक्तम्- 'समानाधिकरण्यम् च विशेषणविशेष्यता। लक्ष्यलक्षणसम्बन्धः पदार्थ-प्रत्यग्-आत्मनाम्॥ (1) समानाधिकरण्यसम्बन्धः- तावत्-यथा, 'सः अयम् देवदत्तः' इति अस्मिन् वाक्ये तत्कालविशिष्टदेवदत्तवाचक-स-शब्दस्य एतत्काल विशिष्ट-देवदत्त-वाचक-अयम् शब्दस्य च एकस्मिन् पिण्डे तात्पर्यसम्बन्धः। तथा च 'तत्त्वमसि' इति वाक्ये अपि परोक्षत्व-आदि विशिष्ट-चैतन्यवाचक-'तत्' पदस्य, अपरोक्षत्वादि विशिष्ट-चैतन्य-वाचक- 'त्वम्' पदस्य च एकस्मिन् चैतन्ये तात्पर्यसम्बन्धः। (2) विशेषणविशेष्यभावसम्बन्धः-तु यथा तत्र एव वाक्ये 'सः' शब्दार्थः तत्कालविशिष्टदेवदत्तस्य, अयम् शब्दार्थ-एतत्कालविशिष्ट देवदत्तस्य च अन्योन्य-भेद- व्यावर्तकतया विशेषणविशेष्यभावः। तथा अत्र अपि वाक्ये 'तत्' पदार्थ-परोक्षत्वादि-विशिष्टचैतन्यस्य 'त्वम्' पदार्थ-अपरोक्षत्वादि विशिष्टचैतन्यस्य च अन्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभावः। (3) लक्ष्यलक्षणसम्बन्धः- तु यथा तत्र एव वाक्ये :'सः'-शब्द-अयम् शब्दयोः तद् अर्थयोः। वा विरुद्ध तत् काल एतत् काल-विंशिष्टत्व परित्यागेन अविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावः। तथा अत्रापि वाक्ये तत्-त्वम् पदयोः तद् अर्थयोः वा विरुद्धपरोक्षत्व अपरोक्षत्वादि विशिष्टत्व परित्यागेन अविरुद्ध- चैतन्येन सह लक्ष्यलक्षणभावः। इयम् एव भागलक्षणा इति उच्यते॥23॥ अनुवाद-इसके पश्चात् महावाक्य के अर्थ का वर्णन किया जा रहा है। यह 'तत्त्वमसि' (वह तू है) इत्यादि वाक्य तीन सम्बन्धों से 'अखण्ड' अर्थ