वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
सदानन्द योगीन्द्र द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 250, कुल 314 में से
संदर्भ में पढ़ें२३६ वेदान्तसार अवतरणिका-इन सम्बन्धत्रय में प्रतिपादित 'विशेषणविशेष्यभाव' एवं 'नीलकमल' में स्थित विशेषणविशेष्यसम्बन्ध' की भिन्नता प्रतिपादित करते हुए ग्रन्थकार कहते हैं- अस्मिन्वाक्ये नीलमुत्पलमिति वाक्यवद्वाक्यार्थो न सङ्गच्छते। तत्र तु नीलपदार्थनीलगुणस्योत्पलपदार्थोत्पलद्रव्यस्य च शौक्ल्यपटादि- भेदव्यावर्तकतयान्योन्यविशेषणविशेष्यभाव संसर्गस्यान्यतर- विशिष्टस्यान्यतरस्य तदैक्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रमाणान्तरविरोधाभावात्तद्वाक्यार्थः सङ्गच्छते। अत्र तु तदर्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वमर्थापरोक्षत्वादि- विशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्तकतया विशेषण विशेष्य भावसं सर्गस्यान्यतरविशिष्टस्यान्यतरस्य तदैक्यस्य च वाक्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणविरोधाद्वाक्यार्थो न सङ्गच्छते। तदुक्तम्- “संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः। अखण्डैकरसत्वेन वाक्यार्थो विदुषां मत” इति॥२४॥ पदच्छेद-अस्मिन् वाक्ये 'नीलम् उत्पलम्' इति वाक्यवद् वाक्यार्थः न सङ्गच्छते। तत्र तु नीलपदार्थनीलगुणस्य उत्पलपदार्थ-उत्पलद्रव्यस्य च शौक्ल्यपटादि-भेदव्यावर्तकतया अन्योन्य-विशेषण-विशेष्यभाव-संसर्गस्य अन्यतरविशिष्टस्य अन्यतरस्य तद् ऐक्यस्य वा वाक्यार्थत्व अङ्गीकारे प्रमाणान्तर-विरोध-अभावात् तद् वाक्यार्थः सङ्गच्छते। अत्र तु 'तत्' अर्थ-परोक्षत्वादिविशिष्टचैतन्यस्य, 'त्वम्' अर्थ- अपरोक्षत्वादि-विशिष्टचैतन्यस्य च अन्योन्य-भेद-व्यावर्तकतया विशेषण विशेष्यभावसंसर्गस्य अन्यतरविशिष्टस्य अन्यतरस्य तद् ऐक्यस्य च वाक्यार्थत्व अङ्गीकारे प्रत्यक्षादि प्रमाणविरोधात् वाक्यार्थः न सङ्गच्छते। तद् उक्तम्- अन्वय-अत्र संसर्गः वा विशिष्टः वा वाक्यार्थः न सम्मतः। विदुषाम् अखण्डैकरसत्वेन वाक्यार्थः मतः (विद्यते)॥24॥ अनुवाद-इस वाक्य में 'नीला कमल' इत्यादि वाक्य के समान वाक्य का (विशेषणविशेष्यभावरूप) अर्थ करना उचित नहीं है, (क्योंकि) वहाँ तो नील पद के अर्थ-'नीलगुण' का तथा उत्पल पद के अर्थ 'कमल' नामक