वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
सदानन्द योगीन्द्र द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 295, कुल 314 में से
संदर्भ में पढ़ेंजीवन्मुक्त-निरूपण २८१ चित्र-६२ जीवन्मुक्त । ब्रह्मज्ञान द्वारा अज्ञान एवं उसके द्वारा उत्पन्न सञ्चित कर्म संशय विपर्यय आदि सभी पूर्णरूप से विनष्ट होकर एकमात्र ब्रह्मनिष्ठ तस्य ↓ हृदयग्रन्थि भिद्यते सर्वसंशयाः छिद्यन्ते कर्माणि च सर्वाणि क्षीयन्ते अवतरणिका-तत्पश्चात् जीवन्मुक्त के व्यवहार को कहते हैं- अयं तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादिभाजनेन शरीरेणान्ध्यमान्द्यापटुत्वादिभाजनेनेन्द्रियग्रामेणाशनया पिपासाशोक- मोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यति। यथेन्द्रजालमिति ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिदमिति न पश्यति। “सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव” इत्यादिश्रुतेः। उक्तं च- “सुषुप्तवज्जाग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः। तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चय” इति॥३५॥ पदच्छेद-अयम् तु व्युत्थानसमये मांस-शोणित-मूत्रपुरीषादि-भाजनेन शरीरेण अन्ध्य-मान्द्य-अपटुत्वादि-भाजनेन इन्द्रियग्रामेण अशनया पिपासा- शोक-मोहादि-भाजनेन अन्तःकरणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञान-अविरुद्ध आरब्धफलानि च पश्यन् अपि बाधितत्वात् परमार्थतः न पश्यति। यथा 'इन्द्रजालम्' इति ज्ञानवान् तद् इन्द्रजालम् पश्यन् अपि परमार्थम् इदम् इति न पश्यति। “सचक्षुः अचक्षुः इव सकर्णः अकर्णः इव” इत्यादिश्रुतेः। उक्तम् च- “सुषुप्तवत् जाग्रति यः न पश्यति, द्वयं च पश्यन् अपि च अद्वयत्वतः।