वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 105, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( १०५ ) पूर्वता, फल, अर्थवाद, और उपपत्ति । ग्रन्थान्तरमें भी लिखा- है—“पूर्वोक्त छः प्रकारके लिङ्ग तात्पर्यार्थके निश्चायक होते हैं” ॥ ८९ ॥ तत्र प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यंतयोरुपा- दानं उपक्रमोपसंहारौ । यथा छान्दोग्ये षष्ठे प्रपा ठके प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः “एकमे- वाद्वितीयम्” इत्यादौ“ ऐतदात्म्यमिदं सर्वम्” इत्य न्तेचप्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनः तन्मध्ये पौनः पुन्येन प्रतिपादनमभ्यासः। यथा त- त्रैवाद्वितीयवस्तुनो मध्ये तत्त्वमसीति नवकृत्वः प्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनः प्रमा- णान्तरेणाविषयीकरणमपूर्वत्वम् । यथा तत्रैवाद्धि तीयवस्तुनो मानान्तराविषयीकरणम् । फलं तु प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयोजनम्। यथा तत्रैव “आचा- र्यवान् पुरुषो वेद, तस्य तावदेव चिरं यावन्न वि- मोक्षे, अथ सम्पत्स्ये” इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते । प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः । यथा तत्रैव उत तमादेश- मप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रति- पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः उपपत्तिः।