वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 109, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । (१०९) कार अद्वितीय वस्तु ब्रह्मके प्रतिपादन करनेमें विकारकी कथनमात्र युक्ति देखनेमें आतीहै वास्तविक नहीं ॥ ९० ॥ मननं तु श्रुतस्याद्वितीयवस्तुनो वेदान्तार्थानुगुण- युक्तिभिरनवरतमनुचिन्तनम् । विजातीयदेहादि- प्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहः निदिध्यासनम्। समाधिश्च द्विविधः। सविकल्पको निर्विकल्पकश्चेति तत्र सविकल्पको नाम ज्ञातृज्ञा- नादिविकल्पलयानपेक्षया द्वितीयवस्तुनि तदाका- राकारितायाश्चित्तवृत्तेरवस्थानम् । तदा मृन्मय- गजादिभानेऽपि मृद्भानवत् द्वैतभानेऽप्यद्वैतं वस्तु भासते । तदुक्तमभियुक्तैः- “दृशिस्वरूपं गमनोपमं परं सकृद्विभातं त्वजमेकमव्ययम् । तदेव चाहं सततं विमुक्तम्। दृशिस्तु शुद्धोऽहमवि- क्रियात्मको न मेऽसिबद्धो न च मे विमोक्षः” इत्यादि ॥ ९१ ॥ (सं०टी०) श्रवणनिरूपणानंतरं तदुत्तरांगस्य मननस्य लक्षणमाह। मननं त्विति। षड्विधलिंगतात्पर्यपूर्वकं श्रुत- स्याद्वितीयब्रह्मणो वेदांताऽविरोधिनीभिर्युक्तिभिर्नैरंतर्येणानुचिं- तनं मननमित्यर्थः। निदिध्यासनस्य लक्षणमाह । विजाती- येति । विजातीयदेहादिवुद्धयन्तजडपदार्थविषयकप्रत्ययनि- राकरणेन सजातीयाद्वितीयवस्तुविषयकप्रत्ययप्रवाहीकरणं निदिध्यासनमित्यर्थः । व्युत्थाननिरोधसंस्कारयोरभिभवप्रा-