वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 135, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( १३५ ) प्रारब्धकर्मणोऽनेकदेहारंभकत्वसंभवेऽपि चरमदेहं विनाऽप- रोक्षज्ञानोत्पत्तेरसंभवात् वामदेवे तथा दृष्टत्वात् । अन्यथा गर्भस्थस्य श्रवणाद्यभावेन ज्ञानोत्पत्त्यनुपपत्तेः । ननु ज्ञानि- नामपि स्वप्नावस्थायां देहांतरस्वीकारवन्मुक्तानामपि पुनर्देहां- तरस्वीकारः किं न स्यादिति चेत्। न। “कंठे स्वप्ने समाविशेत्” इत्यादिवाक्येषु कंठान्निर्गमनाभावश्रणाद्देहांतरप्राप्तेस्तु “तदनं- तरप्रतिपत्तौ” इत्यत्र देहान्निर्गमनश्रवणाद्वैषम्यम् । तदुक्तं स्कां- दे “यस्मिन्देहे दृढं ज्ञानमपरोक्षं विजायते । तद्देहपातपर्यंतमेव संसारदर्शनं।पुरापि नास्ति संसारदर्शनं परमार्थतः।कथं तद्दर्शनं देहविनाशादूर्ध्वमुच्यते। तस्माद्ब्रह्मात्मविज्ञानं दृढं चरमविग्रहे। जायते मुक्तिदं ज्ञानं प्रसादादेव मुच्यते” इति।तस्मात्सुष्ठूक्तं “वि- मुक्तश्चविमुच्यते” इति।नित्यशुद्धपरिपूर्णमद्वयंसच्चिदात्मकमखं डमक्षरं।सर्वदासुखमबोधतत्कृतैर्वर्जितं सदहमस्मितत्परम् गोव- र्द्धनोद्धरणप्रेरणया विमुक्तक्षेत्रे पवित्रे नरसिंहयोगी। वेदान्तसार स्य चकार टीकां सुबोधिनीं विश्वपतेः पुरस्तात् ॥ जाते पंच- शताधिके दशशते संवत्सराणां पुनःसंजाते दशवत्सरेप्रभुवरेश्री- शालिवाहे शके । प्राप्ते दुर्मुखवत्सरे शुभशुचौ मासे नवम्यां ति थौ प्राप्ते भार्गववासरे नरहरिष्टीकां चकारोज्ज्वलाम् । इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमद्रामानंदभगवत्पूज्यपादशिष्य नृसिंहसरस्वतीविरचिता वेदान्तसारस्य टीका समाप्ता १०० ( भा०टी० ) बहुत कहनेसे क्या होगा? यह जीव- न्मुक्त पुरुष शरीरयात्राके निर्वाहके अर्थ इच्छा, अनिच्छा,