भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 39, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 39

संस्कृतटीका-भाषाटीकासमेत । ( ३९ ) क्तत्वं स्वोपाधिप्रधानतयोपादानत्वं च भवतीत्यर्थः। इदानीं विक्षे- पशक्तिकृत्यमाह। तम इति। आकाशादेर्जडत्वात्तमोगुणप्रधा- नविक्षेपशक्तियुक्ताज्ञानावच्छिन्नचैतन्यस्यै वाकाशादिप्रपंचज- नकत्वमिति भावः। अस्मिन्नर्थे श्रुतिं प्रमाणयति। "तस्माद्वा एत- स्मादात्मनआकाशः संभूतः" इति। एतेनापिसांख्यनैयायिकपक्षौ निरस्तौ। शक्तेरज्ञानस्य शक्तिमत्परतंत्रत्वात्स्वतन्त्रस्य तस्य केवलस्य जडस्याज्ञानस्य जगत्कारणत्वानुपपत्तेः। "ईक्षतेर्ना- शब्दम्। रचनानुपपत्तेश्चनानुमानम्" इत्यादिन्यायनिरस्तत्वाच्च। परमाणोरप्युक्तदोषग्रासत्रासानपायात् । अभिन्ननिमित्तो- पादानप्रतिपादकश्रुतिस्मृतिन्यायविरोधाच्च । "यतो वा इमानि भूतानि जायंते येन जातानि जीवंति यत्प्रयत्याधिसंविशंति। सदेव सौम्येदमग्र आसीत्। एतस्माज्जायते प्राणो मनः सर्वेंद्रियाणि च । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। बीजं मां सर्वभूतानाम्" इत्यादिश्रुतिस्मृतिभिरीश्वरस्यैवजगत्कारणत्वप्रतिपादनात् ३९ ( भा०टी० ) तमोगुणप्रधानविक्षेपशक्तिविशिष्टअज्ञानसे आच्छादित चैतन्यसे आकाश उत्पन्न हुआ है आकाशसे वायु वायुसे अग्नि अग्निसे जल जलसे पृथिवी उत्पन्न हुई है इसी प्रकार क्रमसे प्रपञ्चविश्व उत्पन्न हुआहै श्रुतिमें भी ऐसाही लिखा है ॥ ३९ ॥ तेषु जाड्याधिकदर्शनात्तमःप्राधान्यं तत्कारण- स्य तदानीं सत्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाकाशादिषूत्पद्यन्ते । इमान्येव सूक्ष्मभूतानि