वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 74, कुल 145 में से
संदर्भ में पढ़ें( ७४ ) वेदान्तसार । कारं वक्तुमारभते । अपवादो नामेति । असंगोदासीने पर- मात्मवस्तुनि तद्विवर्त्तावस्तुभूताज्ञानादिमिथ्याप्रपंचस्य चिद्व- स्तुमात्रावशेषतयाऽवस्थानमेवापवाद इति वक्तुं प्रथमं लौ- किकदृष्टांतमाह।रज्जुइति।रज्जुस्वरूपापरित्यागेन सर्पाकारेण भासमानस्य रज्जुविवर्त्तस्यापवादो नाशो नामाधिष्ठानरज्जुमा- त्रतयाऽवस्थानवच्चिद्विवर्त्तस्याज्ञानादिप्रपंचस्य अपवादो ना- शो नामाचिन्मात्रत्वेनावस्थानमित्यर्थः।अत्र यथास्वरूपेणाव- स्थितस्य वस्तुनोऽन्यथाभावो द्विधाभवति परिणामभावो विव- र्त्तभावश्चेति तत्र परिणामभावो नाम वस्तुनो यथार्थतः स्वस्व- रूपं परित्यज्य स्वरूपांतरापत्तिः यथा दुग्धमेव स्वस्वरूपं परि- त्यज्य दध्याकारेण परिणमते । विवर्त्तभावस्तु वस्तुतः स्व- रूपापरित्यागेन स्वरूपांतरेण मिथ्याप्रतीतिः । यथा रज्जुः स्वरूपापरित्यागेन सर्पाकारेण मिथ्या प्रतिभासते । अत्र वेदां- ते ब्रह्मणि प्रपंचभानस्य परिणामभावो नांगीक्रियते दुग्धा- दिवद्ब्रह्मणो विकारित्वप्रसंगादनित्यत्वादिदोषापत्तेः । विवर्त्त- भावांगीकारे तु नायं दोषः, ब्रह्मणि प्रपंचभानस्य मिथ्यात्वेन विकारित्वाभावात्।तदुक्तम्"अधिष्ठानावशेषो हि नाशः कल्पि तवस्तुनः”इति। तस्माच्चिद्विवर्त्तस्य प्रपंचस्य चिन्मात्रावशेषत- यावस्थानमेवापवाद इति भावः । अस्मिन्नर्थे ग्रंथांतरसंवादं दर्शयति । तदुक्तमिति ॥ ७२ ॥ ( भा०टी० ) अब अपवादन्याय दिखाते हैं। रज्जुमें स- र्पका भ्रम होकर जिस समय वहभ्रम नष्ट होजाता है उस स-