वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 76, कुल 145 में से
संदर्भ में पढ़ें( ७६ ) वेदान्तसार । तदुपहितं तं चैतन्यञ्चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभा- समानं तत्पदवाच्यार्थो भवति एतदुपाध्युपहि- ताधारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति ॥ ७३ ॥ ( सं०टी० ) सामान्यतो दर्शितामपवादप्रक्रियां विस्त- रेण प्रतिपादयितुं प्रतिजानीते । तथाहीति । स्थूलसूक्ष्मका- रणप्रपंचानामुत्पत्तिवैपरीत्येन तत्तत्कारणरूपेणावस्थानमेवा- पवाद इत्याह । एतद्भोगायतनमिति । एतत्स्थूलशरीरं स्वा- श्रयब्रह्मांडसहितं स्वकारणभूतपंचीकृतेषु पंचमहाभूतेषु लीनं सन्मात्रतयावशिष्यते तानि च पंचीकृतानि भूतानि शब्दा- दिसहितानि सप्तदशावयवात्मकलिंगशरीराणि च स्वकारणे- ष्त्रपंचीकृतभूतेषु लीनानि भवंति तान्यपंचीकृतानि भूतानि सत्त्वादिगुणसहितानि स्वकारणज्ञानोपहितचैतन्ये लीनानि भवंति तच्चाज्ञानं तदुपहितचैतन्यं सर्वज्ञत्वादिविशिष्टंच स्वाधा- रभूतानुपहितचैतन्ये लीनं भवति चैतन्यमेवावशिष्यत इत्य- र्थः । फलितमाह । आभ्यामिति। तत्त्वंपदार्थशोधनप्रकारं प्र- तिजानीते । तथाहीति । अज्ञानं तदवच्छिन्नेश्वरचैतन्यं तद- नुपहितचैतन्यं चैतत्त्रयं तप्तायःपिंडवदन्योन्येन तादात्म्या- ध्यासेनेकत्वेन प्रतीयमानं सत् तत्पदवाच्यार्थो भवतीत्यर्थः । तत्पदलक्ष्यार्थमाह । एतदुपाधीति । अज्ञानावच्छिन्नेश्वर-