वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 161, कुल 355 में से
संदर्भ में पढ़ें२४० वेणीसंहारं नाटकं दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ ३७ ॥ अश्वत्थामा — (सक्रोधम् ।) अरे अरे रथकारकुलकलङ्क, अरे राधागर्भ- भारभूत, आयुधानभिज्ञ, तातमप्यधिक्षिपास । अथवा । स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा । परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा ॥ ३८ ॥ सूतः = सारथिः वा, सूतपुत्रः = सारथिपुत्रः, वा, यः, वा, अथवा, कः अहम्, भवामि, कोप्यहमस्मि नात्र कापि विचारणा । कुले=उत्तमकुले नीच कुले वा, जन्म, दैवायत्तम् = कर्माधीनम्, तु = किन्तु पौरुषम् = पराक्रमः, मदायत्तम् = स्वाधीनम् । जात्यायुर्भोगाः-कर्मफलानि, पराक्रमः स्वायत्तो भवतीति भावः । पथ्यावक्त्रं छन्दः ॥ अन्वयः त्रिभुवने, प्रथितभुजसारः, सः, शूरः, भीरुः, वा प्रतिदिनम्, तेन, आजौ, यत्, कृतम् (तत्) इयम्, वसुधा वेत्ति, शस्त्रम्, कथम्, परित्यक्तम्, इति, सत्यव्रतधरः, सः, पृथासूनुः, साक्षी, हे रणभीरो, त्वम्, तदा क्व, नु असि ॥ पाञ्चालभीतो द्रोणोऽस्त्रत्यक्तवानिति यदुक्तं कर्णेन तत्राह—स भीरुरिति । त्रिभुवने = लोकत्रये, प्रथितभुजसारः—प्रथितः विख्यातः, भुजसारः बाहुबलं यस्य सः ‘सारो बले दृढांशे चेत्यमरः । सः शूरः = वीरः, वा भीरुः = भययुक्तः, वस्तु प्रतिदिनम्, तेन = द्रोणेन, आजौ = सङ्ग्रामे यत्, कृतं, तदित्यध्याहारः । इयं वसुधा = पृथ्वी, वेत्ति = जानाति, क्षत्रियाणां विनाशन पृथिव्या अल्पभारतवसम्पाद- नायेति भावः । शस्त्रं, कथं = कस्माद्धेतोः, परित्यक्तमिति, सत्यव्रतधरः = धरतीति धरः पचाद्यच्, सत्यव्रतस्य धरः सत्यव्रतधरः, सत्यवतैत्यर्थः । सः, पृथासूनुः = युधिष्ठिरः, साक्षी = प्रत्यक्षद्रष्टा, तदा = यस्मिन् समये शस्त्रं त्यक्तवान् तस्मिन् हाथों में है और पुरुषार्थ करना मेरे हाथों में है ॥ ३७ ॥ अश्वत्थामा—(क्रोध से) अरे! अरे !! रथकारकुलाङ्गार !!! अरे राधागर्भसम्भूत, शस्त्रानाभिज्ञ, ! पिता की भी निन्दा कर रहा है ? अथवा— चाहे वह [मेरे पिता द्रोण] कायर हों अथवा वीर परन्तु उनकी भुजा का बल समस्त संसार को विदित है । समरभूमि में उन्होंने प्रतिदिन जो कुछ किया है यह वसुन्धरा जानती है, उन्होंने शस्त्र का परित्याग क्यों किया ? इस बात में सत्यव्रत परायण युधिष्ठिर साक्षी हैं । ऐ समरभूमि के कायर ! उस समय तुम थे कहाँ ? ॥ ३८ ॥