वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 313, कुल 355 में से
संदर्भ में पढ़ेंदये च धृतिमन्त भवन्तमविरलमालिङ्ग्य शिरसि चाघ्रायेढं प्रार्थयते— मम हि वयसा दूरेण त्वं श्रुतेन समो भवान् कृतसहजया बुद्ध्या ज्येष्ठो मनीषितया गुरुः। शिरसि मुकलो पाणी कृत्वा भवन्तमतोऽर्थये मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ २४ ॥ सविधे । तत्रभवान् = प्रशंसनीयः, माद्रेयः = माद्रीतनयः । कनीयान् = कनिष्ठः । किं वक्तव्य इत्याह - सकलेति । सकलं यत्कुरुकुलम्, भरतवंशः तदेव कमलाकरः पद्मखनिः तत्र वडवानलः वाडवाग्निः, परलोकम् = स्वर्गम्, अभिप्रस्थितः = गन्तु- मारब्धः आदिकर्मणि क्तः अनुकूलम्, ममेत्यादि । अथवा अनुकूलमित्यस्य आशंसनीय- मित्यनेनान्वयः । आशीर्वचनयाग्यम्, व्यसने = विपत्तौ, अभ्युदये च असम्मूहम् = अनुद्विग्नम्, समानमित्यर्थः । धृतिमन्तम् = सधैर्यम् भवन्तम् = सहदेवम्, चिरम् = बहुकालम्, आलिङ्ग्य = परिष्वज्य, आघ्राय = घ्रात्वा, लालनं कृत्वेत्यर्थः । -- अन्वयः -- मम, वयसा, दूरेण ( उपलक्षितः ), त्वम्, श्रुतेन, भवान्, समः, कृतसहजया, बुद्ध्या, ज्येष्ठः, मनीषितया, गुरुः, अतः, शिरसि, पाणी, मुकुलौ कृत्वा, भवन्तम्, अर्थये, मयि स्नेहः, विरलताम्, नेयः, पितुः, वारिदः, भव, (त्वम्) ॥२४॥ किं प्रार्थयत इत्याह - ममेति । हि = यतः, मम = युधिष्ठिरस्य, वयसा = अव- स्थया, दूरेण, (उपलक्षितः) त्वम्, अल्प इति पाठे दूरेणाल्पः = अतिकनिष्ठः, श्रुतेन = श्रवणेन, शास्त्रस्येत्यादिः, शास्त्रश्रवणेनेत्यर्थः । भावे क्तप्रत्ययः । भवान्, समः = सदृशः, कृतसहजया = सहजननं सहजः 'अन्येभ्योपि दृश्यते' इति वाहुलका- द्भावे डप्रत्ययः । कृतः प्राप्तः सहजः सहजननं यया बुद्ध्या तया, सहोत्पन्नयेत्यर्थः । स्वाभाविकयेति यावत् ।- बुद्ध्या = ज्ञानेन, ज्येष्ठः = अतिप्रवस्यः प्रशंसनीय इत्यर्थः । 'ज्य च' इति सूत्रेण प्रशस्यस्येष्ठन्प्रत्यये परे ज्यादेशः । मनीषितया = विद्वत्तया, शास्त्राध्ययनजन्यज्ञानेनेत्यर्थः । गुरुः = श्रेष्ठः, अतः, शिरसि = मस्तके, पाणी = हस्तौ, मुकुलौ = सम्पुटितौ, अथवा कुङ्म्लसदृशौ, कृत्वा = विधाय,, भवन्तम् अर्थये = अभ्यर्थये, एतत्सर्ववाक्यमतिनम्रताबोधनार्थं तथा च त्वया मद्वचनमवश्यं कर्त- व्यमिति सूचितम् । अभ्यर्थनामेवाह-- मयीति । मयि = ज्येष्ठभ्रातरि, स्नेहः = प्रीतिः, विरलताम् = कृशत्वम्, नेयः = प्रापणीयः, मयि स्नेहं त्यक्त्वा जीवितव्यमिति भावः । तदेवाह -- पितुरिति । पितुः, वारिदः = जलदः, भव, पितृगणाय जलं देयम् और बुद्धि से मुझसे ज्येष्ठ (बड़े) हैं और विद्वत्ता में साक्षात् बृहस्पति के सदृश हैं अतः हाथ जोड़कर अञ्जलि को शिर से लगाकर आपसे प्रार्थना करता हूँ- 'मेरे विषय में स्नेह को शिथिल कर दीजियेगा और पितरों के लिए तिलाञ्जलिदाता बनिये' ॥ २४ ॥