वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 343, कुल 355 में से
संदर्भ में पढ़ें१२४ वेणीसंहारं नाटकं अर्जुनः—जयत्वार्यः । युधिष्ठिरः ( विलोक्य । ) अये, भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । देव, अभिवादये । ( किरीटिनं प्रति ) एह्येहि वत्स, परिष्वजस्व माम् । ( अर्जुनः प्रणमति । ) युधिष्ठिरः—( वासुदेवं प्रति ) कुतस्तस्य विजयादन्यद्यस्य भगवान्पुण्डरी- काक्षो नारायणः स्वयं मङ्गलान्याशास्ते । कृतगुरुमहदादिक्षोभसंभूतभूति गुणिनमुदयनाशस्थानहेतुं प्रजानाम् । समुदायो येन सः, सानुजः = सावरजः, पाण्डवकुलचन्द्रः = पाण्डवकुले चन्द्र इव । एहि = आगच्छ, परिष्वजस्व = आलिङ्गय । प्रतीति, कथयतीति शेषः । पुण्डरीकाक्षः=पुण्डरीकं कमलं तद्वदक्षिणी यस्य सः 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षच्प्रत्ययः । 'यस्येति च' इतीकारलोपः । मङ्गलानि = शुभानि, आशास्ते = इच्छति । अन्वयः—( हे ) देव ! कृतगुरुमहदादिक्षोभसम्भूतभूतिम्, गुणिनम्, प्रजानाम् उदयनाशस्थानहेतुम्, अजम्, अमरम्, अचिन्त्यम्, त्वाम् चिन्तयित्वा, अपि, जगति, ( जनः ) दुःखी, न भवति, किम्, पुनः दृष्ट्वा, ( भविष्यति ! ) । : ४३ ॥ सकलसंसारहेतुभूतस्य नित्यानन्दपरब्रह्मणस्तव चिन्तनेनापि जनो दुःखनिर्मुक्तो भवति, साक्षात्कारे तु दुःखस्य सम्भावनाऽपि नास्तीत्याह—कृतेति । ( हे ) देव = संसारचक्रेण क्रीडक ! क्रीडाद्यर्थकदिवधातोः पचादित्वादच्प्रत्यय । कृतगुरुमहदा- दिक्षोभसम्भूतभूतिम् = कृताः अनित्या ये गुरवः श्रेष्ठाः, कारणत्वादिति भाव । मह- दादयः महदहङ्कारस्तन्मात्राः प्रकृतिविकृतयः तदुक्तं सांख्यतत्त्वकौमुद्याम्— महदाद्याः प्रकृतिविकृतयः सप्त इति प्रकृतेर्महांस्ततोऽहङ्कारः, तस्माद्गणश्च षोडशकः । इति च । तेषां क्षोभेण परिणामेन, सम्भूता उत्पन्ना मूर्तिः जगत् यत्र तम्, अथवा कृता अर्जुन—आप की जय हो । युधिष्ठिर—( देखकर ) अये ! कमलोचन भगवान् वासुदेव और वत्स अर्जुन ! भग- वान् वासुदेव ! साष्टाङ्गपात प्रणाम । ( अर्जुन के प्रति ) प्रिय भ्राता ! आओ आओ मुझसे मिलो । ( अर्जुन प्रणाम करते हैं ) युधिष्ठिर—( वासुदेव के प्रति ) उस व्यक्ति के लिए, जिसके मङ्गल की कामना पुराण पुरुष भगवान् नारायण करते हैं, विजय के अतिरिक्त दूसरा कैसे हो सकता है । हे देव, स्वीय परिणाम से उत्पन्न, गुरु = पृथिवी, जल, तेज वायु, आकाश इत्यादि और महत्तत्त्वादिकों के क्षुभित होने से अर्थात् सृष्टि के अनुगुण प्रवृत्ति से सम्भूत मूर्ति अर्थात्