वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 98, कुल 355 में से
संदर्भ में पढ़ें[Page Header: द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ७७]
तत्सम्पूर्णमनोरथस्य मे कामचारः सम्प्रति विहारेषु । तदितो दारु- पर्वतप्रासादमेव गच्छामः । ( सर्वे वात्याबाधां रूपयन्तः परिक्रामन्ति । ) राजा— कुरु घनोरु पदानि शनैः शनैरयि विमुञ्च गतिं परिवेपिनीम् । सुतनु बाहुलतोपनिबन्धनं मम निपीडय गाढमुरःस्थलम् ॥ २१ ॥ स्पर्शं कुर्वन्, अहम्, सशपथम् = यदि त्वं मां स्पृशेस्तदा शपथस्तवेत्येवं, न, वारितः = निवारितः लग्नपयोधरं = सम्मिलितस्तनम् यथा स्यात्तथा आलिङ्गितम् = आलिङ्गनम्, भावे क्तः । आबद्धम् = कृतम् अत इत्यध्याहारः, अस्याः = भानुमत्याः, नियमस्यः = व्रतस्य, भङ्क्ता = भञ्जकः अयम्, भीषणमरुत् = भयावहो वायुः, न किन्तु मे = मम, वयस्यः = मित्रम्, नु = उत्प्रेक्षे, एतादृशोपकारकरणान्मम मित्रमेवेत्यर्थः । अत्र वस्तुना समाधिरलङ्कारो व्यज्यते । उत्प्रेक्षालङ्कारः शार्दूलविक्रीडितं छन्दः ॥ २० ॥ सम्प्रति = अधुना, सम्पूर्णमनोरथस्य, मे, विहारेषु = क्रीडासु कामचारः = स्वेच्छाचार इत्यन्वयः । अन्वयः—( हे ) घनोरु, शनैः शनैः पदानि, कुरु, अयि, परिवेपिनीम्, गतिम्, विमुञ्च, ( हे ) सुतनु, बाहुलतोपनिबन्धनम्, मम, गाढम्, उरःस्थलं, निपीडय ॥ साम्प्रतं नास्ति भयस्यावकाश इत्याह—कुर्विति—हे घनोरु-निबिडोरु, शनैः शनैः = मन्दं मन्दं, पदानि = चरणान् कुरु = सम्पादय, अयि, परिवेपिनीम् = कम्प- मानाम्, गतिं = गमनं, विमुञ्च = त्यज, हे सुन्दरि, बाहुलतोपनिबन्धनम् = बाहुः 'भुजः' लता इव वल्लीव तया उपनिबन्धनम् ( आबन्धः ) तद्यथा स्यात् तथा, मम, गाढम् = अत्यन्तम् उरःस्थलम् = वक्षःस्थलम्, निपीडय = आलिङ्गय । अत्र = वातुलतेत्यत्र लुप्तोपमालङ्कारः । द्रुतविलम्बितं छन्दः । द्रुतविलम्बितमाह नभौ भरौ, इति लक्षणात् ॥ २१ ॥
अब मेरी अभिलाषा पूर्ण हो गई; कामकला की क्रीड़ा में अब मैं स्वतन्त्र हो गया अतः मैं यहाँ से दारुपर्वतस्थ भवन की ही ओर चलता हूँ । ( सब लोग आँधी के कष्ट के अनुभव का अभिनय करते हुए चल रहे हैं ) राजा—अयि, विशालजघने, धीरे-धीरे आगे बढ़िये अर्थात् धीरे-धीरे पैर रखिए, स्खलित गति से ( लड़खड़ाती हुई ) न चलिए । सुभगे ! अपनी भुजलताओं से पकड़कर मेरे हृदय का गाढ़ आलिङ्गन कीजिए ॥ २१ ॥