विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 116, कुल 493 में से
संदर्भ में पढ़ें( १२ ) जलाशया यत्र हसन्ति सन्ततं नवेन्द्रनीलद्रवनिर्मलोदराः । शरत्समुत्सारितमेघकर्दमं कलिन्दकन्याह्रदमेचकं नभः ॥६॥ अन्वयः यत्र नवेन्द्रनीलद्रवनिर्मलोदराः जलाशयाः शरत्समुत्सारितमेघकर्दमं कलिन्दकन्याह्रदमेचकं नभः सन्ततं हसन्ति । व्याख्या यत्र कल्याणकटकनामकनगरे नवो नूतन इन्द्रनीलमणीनां द्रवो द्रुतपदार्थस्तद्व- न्निर्मलं मलरहितमुदरं मध्यं येषां ते जलाशयाः सरांसि शरदा शरद्ऋतुना समुत्सारिता दूरीकृता मेघा एव कर्दमाः पङ्काः यस्मात्तत् कलिन्दकन्याया यमुनाया ह्रदोऽगाधपयस्तद्वन्मेचकं कृष्णवर्णं नभ आकाशं सन्ततं सततं हसन्ति स्वशोभया तिरस्कुर्वन्ति । शरदृत्तौ नभसि मेघा न दृश्यन्ते जले च पङ्करा- हित्यान्नैर्मल्यं जायते । अत्र जलाशयानां नभसा सादृश्यप्रतीतेरुपमाया हसन्तीति पदेन व्यङ्ग्यत्वम् । भाषा जिस कल्याणकटक नगर मे नये इन्द्रनील मणियो के द्रव के समान स्वच्छ स्तर वाले जलाशय, शरद ऋतु के आने पर मेघ रूपी कीचड से रहित और यमुनानदी के अगाध जल के समान नीले रग के आकाश की हँसी उडाते है । अर्थात् उन जलाशयो की नीलिमा आकाश की नीलिमा से सुन्दर थी । प्रकर्षवत्या कपिशीर्षमालया यदुद्भटस्फाटिकवप्रसंहतिः । विलोकयत्यम्बरकेलिदर्पणे विलासधौतामिव दन्तमण्डलीम् ॥७॥ अन्वयः यदुद्भटस्फाटिकवप्रसंहतिः प्रकर्षवत्या कपिशीर्षमालया विलासधौतां दन्तमण्डलीम् अम्बरकेलिदर्पणे विलोकयति इव । व्याख्या यस्य कल्याणपुरस्योद्भटा बृहती स्फाटिका स्फटिकमणिशिलानिर्मिता वप्रस्य प्राकारस्य संहतिः सन्ततिः श्रेणिः प्रकर्षवत्याऽत्युन्नतया कपिशीर्षाणि प्राकारस्यो-