विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 143, कुल 493 में से
संदर्भ में पढ़ें( १२० ) अन्वयः कठोरव्रतचर्यया कृशं नृपं सा समाहिता नरनाथसुन्दरी निशातशाणो- ल्लिखितं माणिक्यम् अतीव निर्मला प्रभा इव समन्वगात् । व्याख्या कठोरं कठिनञ्चतद्व्रतञ्च तपस्यारूपं कठोरव्रतं तस्य चर्याऽऽचरणं तया कृशं कृशतनुं नृपं राजानं सा प्रसिद्धा समाहिता समाधौ स्थिता, निश्चलचित्तेन तपः- परायणा नरनाथस्य राज्ञः सुन्दरी पत्नी निशातस्तीक्ष्णः शाणः कषोपलं 'शाणस्तु निकषः कषः" इत्यमरः । तेनोल्लिखितं घर्षितमत एव कृशं माणिक्यं मणिम- र्तीवात्यन्तं निर्मला स्वच्छा प्रभेव कान्तिरिब समन्वगादनुसृतवती । यथा माणिक्यस्य कषे घर्षणेन कृशता प्रभा चानुसरति तथैव कठोरव्रतेन कृशं नृपं तस्य राज्ञी समनुसृतवतीति भावः । अत्रोपमालङ्कारः । भाषा जिस प्रकार तेज सान पर चढ़ाए हुए माणिक्य में कृशता के साथ अत्यन्त उज्ज्वल चमक भी आजाती है उसी प्रकार कठोर तपस्या से कृश उस राजा का, तपस्या में लगी रानी बराबर निश्चल चित्त से साथ देती रही । मृगाङ्कचूडस्य किरीटनिम्नगा-तरङ्गवातैरिव वारितश्रमा । उपाचरत्सम्यगसौ नराधिपं स्वहस्तलिप्तेश्वरमन्दिराजिरा ॥४७॥ अन्वयः स्वहस्तलिप्तेश्वरमन्दिराजिरा मृगाङ्कचूडस्य किरीटनिम्नगातरङ्गवातैः वारितश्रमा इव असौ नराधिपं सम्यक् उपाचरत् । व्याख्या स्वहस्तेन निजकरेण लिप्तं गोमयादिनोपलिप्तमीश्वरस्य शिवस्य मन्दिरस्या- जिरमङ्गणं यया सा मृगाङ्कश्चन्द्रश्चूडे ललाटे यस्य तस्य शिवस्य किरीटरूपा मुकुटरूपा 'मुकुटं किरीटं पुंनपुंसकम्' इत्यमरः । या निम्नगा गङ्गानदी तस्यास्तरङ्गवातैर्वीचिपवनैर्वारितोऽपनीतः श्रमः क्लेशो यस्याः सा वारितश्रमे- तादृशी नृपपत्नी राजमहिषी नराधिपं राजानं सम्यक् प्रकारेण सिषेवे सेवितवती । अत्रोत्प्रेक्षालङ्कारः ।