विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 145, कुल 493 में से
संदर्भ में पढ़ें( १२२ ) व्याख्या इति पूर्वोक्तरीत्येन्दुशेखरस्य शिवस्य प्रसादाय प्रसन्नतासम्पादनार्थं चिरं चिरकालमुग्रं कठिनं व्रतं नियमं ‘नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्’ इत्यमरः । आश्रितसमाधिनः क्षितीन्द्रो राजा कदाचिदिरस्मिंश्चित्समये प्रभाते प्रातःकाले या पूजाऽर्चनं तस्या अवसरे नभसि गगने चरतीति नभश्चरी तामाकाशगामिनीं भारतीं वाणीं ‘ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती’ इत्यमरः । आकाशवाणीमित्यर्थः । आकर्णयति स्म श्रुतवान् । भाषा इस प्रकार शंकर भगवान् को प्रसन्न करने में चिरकाल तक कठोर व्रत पालन करने वाले राजा ने किसी दिन सबेरे की पूजा के काल में आकाशवाणी सुनी । अलं चुलुक्यक्षितिपालमण्डन-श्रमेण विश्राम्यतु कर्कशं तपः । कमप्यपूर्वं त्वयि पार्वतीपतिः प्रसादमारोहति भक्तवत्सलः ॥५०॥ अन्वयः हे चुलुक्यक्षितिपालमण्डन श्रमेण अलं, कर्कशं तपः विश्राम्यतु, भक्तवत्सलः पार्वतीपतिः त्वयि कम् अपि अपूर्वं प्रसादम् आरोहति । व्याख्या हे चुलुक्यस्य चुलुक्यवंशस्य क्षितिपाला नृपास्तेषां मण्डनमाभूषणं तत्सम्बुद्धौ हे चुलुक्यवंशक्षितिपालमण्डन ! राजन् ! श्रमेणालमतः परं वनादिषु परिश्रमो न कर्तव्यः । कर्कशं कठिनं तपो नियमो विश्राम्यतु विश्रान्तिमेतु भक्तानां प्रपन्नानां वत्सल स्निग्धः 'स्निग्धस्तु वत्सल.' इत्यमरः । पार्वत्याः पतिः शिवस्त्वयि त्वद्विषये कमप्यपूर्वं कमप्यनिर्वचनीयं प्रसादं प्रसन्नतां कृपामारोहति करोति । भाषा हे चालुक्य वंशीय राजाओं के भूषण ! अब परिश्रम मत करो । कठोर तप बन्द करो। भक्तवत्सल शंकर ने तुम्हारे ऊपर एक अवर्णनीय कृपा की है। इयं त्वदीया दयिता भविष्यति क्षितीन्द्र पुत्रत्रितयस्य भाजनम् । चुलुक्यवंशः शुचितां यदूर्जितैर्यशोभिरायास्यति मौक्तिकैरिव ॥५१॥