विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 148, कुल 493 में से
संदर्भ में पढ़ें( १२५ ) व्याख्या स आहवमल्लदेवो व्योमंऽऽभ्रमेव 'द्योर्दिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्' इत्यमरः । पयसां जलानां निधिस्समुद्रस्तस्माच्छुतिरेव कर्णे एव शुक्तिर्मुक्ता- स्फोटः 'मुक्तास्फोटः स्त्रियां शुक्ति' इत्यमरः । तां समागतां प्राप्ता सुधामिव पीयूषमिवेतीत्थं पूर्वोक्तां गिरमाकाशवाणीं निपीय श्रुत्वा समन्ततः परित उदञ्ची उद्गतो रोमाञ्च रोमहर्षशं यस्य स उदञ्चिवरोमाञ्चस्तस्य भावस्तत्ता तथा 'रोमाञ्चो रोमहर्षणम्' इत्यमरः । शैत्यस्य शीततायास्सम्पर्कः सम्बन्ध्यस्तमिव न्यवेदयत् प्रकटयाञ्चकार । अत्राऽऽकाशे समुद्रतादात्म्यारोपः श्रुतौ शुक्ति- त्वारोपे वाण्यां सुधात्वारोपे च कारणमिति परम्परितरूपकम् । अत्रोपमोत्प्रे- क्षयोः सङ्करः । भाषा राजा आहवमल्लदेव, आकाशरूपी समुद्र से कर्णरूपी सीप में अमृत रूपी आकाशवाणी पड़ने से हर्ष के कारण रोमाञ्चित होकर अपने को मानो जाड़ा लग रहा हूँ ऐसा प्रकट करने लगा । (जाड़ा लगने से भी रोंगटे खड़े हो जाते हैं ।) उदश्वदानन्दजलप्लुतेक्षणस्ततः प्रमोडालसलोचनोत्पलाम् । स वल्लभामन्यपुरन्ध्रिदुर्लभैर्गुणैरुपैतां गुणवानतोषयत् ॥५५॥ अन्वयः ततः गुणवान् सः उदश्वदानन्दजलप्लुतेक्षणः (सन्) अन्यपुरन्ध्रिदुर्लभैः गुणैः उपेतां प्रमोडालसलोचनोत्पलां वल्लभाम् अतोषयत् । व्याख्या ततस्तदनन्तरं गुणवान्दाक्षिण्यादिगुणोपेत स आहवमल्लदेवनृप उदश्व- दुद्गच्छदानन्दजलमानन्दाश्रुजलं तेन प्लुते व्याप्ते ईक्षणे नेत्रे 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । दस्यैवम्भूतस्तत्प्रत्यासन्नपुरन्ध्रयश्च नार्य्यश्च तासु दुर्लभैरप्राप्यैर्गुणैस्सौजन्यलज्जापातिव्रत्यादिगुणैरुपैतां युक्तां प्रमोदेनानन्दे- नाऽलसे निस्पन्दे लोचन शुक्लोत्पले कमले यस्यास्तां वल्लभां प्रियामतोषयत् समाश्वासितवान् । अत्ररूपकमलङ्कारः ।