विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 162, कुल 493 में से
संदर्भ में पढ़ें( १४१ ) कृतेषु सर्वेष्वथ शास्त्रवर्त्मना यथाक्रमं पुंसवनादिकर्मसु । विशेषचिह्नैर्निजमीशितुः क्षितेर्वधूः समासन्नफलं न्यवेदयत् ॥७८॥ अन्वयः अथ क्षितेः ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्त्रवर्त्मना कृतेषु (सत्सु) विशेषचिह्नैः निजं समासन्नफलं न्यवेदयत् । व्याख्या अथाऽनन्तर क्षितेः पृथ्व्या ईशितुरीश्वरस्य राज्ञो वधूः स्त्रीः क्रममनतिक्रम्य वर्तत इति यथाक्रमं क्रमानुसारण सर्वेषु समग्रेषु पुंसवनादिर्येषां तानि कर्माणि संस्कारास्तेषु, पुंसवनसीमन्तोन्नयने द्वावेव संस्कारौ गर्भाधानसंस्कारानन्तरमिति बहुवचनमत्राऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतीयोऽपि संस्कारो भवति । शास्त्रवर्त्मना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिह्नै- र्विशिष्टलक्षणैर्निजं स्वीयं समासन्नं निकटवर्ति च तत् फल पुत्रोत्पत्तिरूपं न्यवेदयत् सूचितवती । भाषा इसके अनन्तर पृथ्वी के स्वामी की स्त्री रानी ने धर्मशास्त्र के अनुसार क्रम से पुंसवन सीमन्तोन्नयन प्रभृति संस्कारों के सम्पादित होने पर, विशेष लक्षणों से, शीघ्र होने वाले अपने पुत्र रूप फल की सूचना दी । त्रिलोकक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रकरैरिवाप्लुतः । अदूरवाञ्छालतिकफलोदयः क्वचिन्न माति स्म मुदा नरेश्वरः ॥७९॥ अन्वयः त्रिलोकक्ष्म्या सलीलम् ईक्षितः इव कृतद्रवैः चन्द्रकरैः आप्लुतः इव अदूरवाञ्छालतिकफलोदयः नरेश्वरः मुदा क्वचित् न माति स्म । व्याख्या त्रिलोकस्य त्रिभुवनस्य लक्ष्म्या राजश्रिया सलीलं सविलासममीक्षितो दृष्ट इव, कृतो द्रवो जलरूपं येषां ते कृतद्रवास्तैर्द्रवीभूतैश्चन्द्रकरैःशशिकिरणैराप्लुतो- ऽभिषिक्त इवाऽदूरे समीपस्थ एव वाञ्छालतिकया इच्छालातायाः फलस्य पुत्ररूप-