भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 193, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 193

( १६८ ) व्याख्या तेज एव दीप्तिरेव धनं येषा ते तेजोधनास्तेषां तेजस्विनामुपरि सर्वोत्कर्षेण स्थितस्य विद्यमानस्य तस्य राजसूनोरूर्ध्वः शिरसि स्थितं विराजमानं किरीट- रत्नं मुकुटरत्नं मणिभो रत्नादिभिर्निर्मिते पादपीठे पादाधारपीठे सक्रान्तिभङ्ग्ग्या प्रतिबिम्बव्याजेन क्षमां प्रार्थयितुमिव याचितुमिव लुठोठ पपात । अत्रोत्प्रेक्षा- लङ्कारः । भाषा सब तेजस्वियो में श्रेष्ठ इस राजपुत्र के, मस्तक पर का मुकुटमणि, रत्न जडित पाव रखने की चौकी पर पडी अपनी परछाई के मिष से (उस तेजस्वी के भी ऊपर बैठने के अपराध से) मानो क्षमा याचना करने के लिये उसके पैरो पडता था । अत्रान्तरेऽभूज्जयसिंहनामा पुत्रस्तृतीयोऽपि नराधिपस्य । स्वप्नेऽपि संवादयशोदरिद्रश्चन्द्रार्द्धचूडस्य न हि प्रसादः ॥२५॥ अन्वयः अत्र अन्तरे नराधिपस्य जयसिंहनामा तृतीयः अपि पुत्रः अभूत्। हि चन्द्रार्द्धचूडस्य प्रसादः स्वप्ने अपि संवादयशोदरिद्रः न (भवति) । व्याख्या अत्रान्तरेऽस्मिन्नवकाशे 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्य- मरः । नराधिपस्याऽऽहवमल्लदेवराजस्य जयसिंहनामा जयसिंहनामकस्तृती- योऽपि पुत्रः सूनुरभूदजायत । हि यस्मात्कारणात् चन्द्रार्द्धश्चूड़ायां शिरसि यस्य तस्य शिवस्य प्रसादोऽनुग्रहः स्वप्नेऽपि कथमपीतिभावः । संवादस्य स्वानुकूल- फलदानरूपस्य वचनस्य यशस्तेन दरिद्रो रहितो न, भवतीत्यर्थः । शिवप्रसादप्राप्तिप्रयोजकवचनस्य सदैव सत्यत्वमिति कुतस्तद्वचनस्य मिथ्या- भाव प्रसङ्ग इति भावः । अत्र पूर्वार्द्धोक्तस्य द्वितीयार्द्धोक्तेनाऽर्थेन समर्थना- दर्थान्तरन्यासालङ्कारः । "सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यञ्च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणाऽर्थान्तरन्यासोऽष्टधा ततः ।" इति लक्षणात् ।

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक) · पृष्ठ 193, कुल 493 में से · BharatKosha