विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 215, कुल 493 में से
संदर्भ में पढ़ें( १९१ ) अन्वयः सः यौवराज्यश्रियम् आश्रितस्य ज्येष्ठस्य, राज्ये स्थितस्य पितुः च द्वयोः अपि अखिलं कार्यम्, आदिकूर्मः भूशेषयोः भारम् इव बभार । व्याख्या स विक्रमाङ्कदेवो यौवराज्यश्रियं यौवराज्यलक्ष्मीमाश्रितस्य समास्थितस्य ज्येष्ठस्य ज्येष्ठभ्रातुः सोमदेवस्य, राज्ये राज्यसिंहासने स्थितस्य वर्तमानस्य पितुस्तातस्य च द्वयोरुभयोरप्यखिलं समस्तं 'विश्वमशेषं कृत्स्नं समस्तनिखिला- खिलानि निःशेषम्' इत्यमरः । कार्यं युवराजप्रयुक्तं राजप्रयुक्तञ्च कार्यमित्यर्थः । आदिकूर्मो विष्णोः प्रथमावताररूपः कच्छपो भूः पृथ्वी शेषो नागराजोऽनन्तस्त- योर्भारमिव बभार पारयामास । यथाऽऽदिकच्छपो भुवरुद्धारकस्य नागरा- जस्याऽपि भार दधाति तथैव विक्रमाङ्कदेवः स्वज्येष्ठभ्रातुस्स्वपितुश्च कार्यभार- मवहदिति भावः । भाषा भगवान् विष्णु का आदि अवतार कच्छप जैसे पृथ्वी और पृथ्वी का भार उठाने वाले शेषराज दोनो का बोझ उठाये रहता है उसी प्रकार विक्रमाङ्कदेव ने युवराज पद पर स्थित अपने बड़े भाई तथा राजगद्दी पर विराजित अपने पिता इन दोनो का सम्पूर्ण कार्य भार अपने ऊपर ले लिया । आज्ञापयामास च वन्दिताङ्गं तमेव सर्वत्र रणोत्सवेषु । पपौ च भूपस्तदुपार्जितानि यशोवतंसानि जयामृतानि ॥६०॥ अन्वयः सः भूपः वन्दिताङ्गं तम् एव सर्वत्र रणोत्सवेषु आज्ञापयामास, तदुपार्जितानि यशोवतंसानि जयामृतानि च पपौ । व्याख्या स भूपो राजाऽऽहवमल्लदेवो वन्दिता सम्मानिताऽङ्गता येन तं सम्मानिताङ्गं तं विक्रमाङ्कदेवमेव सर्वत्र रणोत्सवेषु युद्धोत्सवेषु गमनायाज्ञापयामास नियो- जितवान् । तेन विक्रमाङ्कदेवेनोपार्जितानि समानीतानि यशः कीर्तिरेवाऽवतंसो भूषणं येषां तानि । एतेन यशसः पुष्पसाम्यं गम्यते । जया विजया एवाऽ-