भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 217, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 217

( १९४ ) . 'स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः । विना विनैव चन्दनस्य चन्दनवृक्षस्य वायुः पवनश्चन्दनवायुर्दक्षिणानिल इत्यर्थः । आसीत् प्रादुर्बभूव । तद्वाहिन्यामसंपाता गता आसन्नितिभावः । अत्र चैत्रं विना चन्दनवायुप्रवृत्तेर्विभावनालङ्कारः । “विभावना विना हेतुं कार्योत्पत्तियंदुच्यते ।” भाषा विक्रमाङ्कदेव के मलयाचल के कुञ्ज में प्रविष्ट होने पर उसकी सेना के हाथियों के कानरूपी ताड़ के पंखों से, चैत का महीना न होने पर भी, विरहिणियों को सन्तप्त करने वाला, चन्दन की सुगन्ध से युक्त दक्षिणानिल बहने लगा । अदर्शयत्कामपि राजहंस-लीलामसौ कुन्तलराजसूनुः । निस्त्रिंशधाराजलसङ्गतं यद् द्विषां यशः क्षीरमिवाचकर्ष ॥६४॥ अन्वयः असौ कुन्तलराजसूनुः काम् अपि राजहंसलीलाम् अदर्शयत् । यत् निस्त्रिंशधाराजलसङ्गतं द्विषां यशः क्षीरम् इव आचकर्ष । व्याख्या असौ कुन्तलराजस्य कुन्तलदेशाधिपस्य सूनुः पुत्रो विक्रमाङ्कदेवो कामपि विचित्रां राजहंसस्य राजश्रेष्ठस्य हंसपक्षिणो वा लीलां क्रीडाविलासम्अदर्शयत् प्रकटयाम्बभूव । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैस्सिताः' इत्यमरः यद्यस्मा- त्कारणात् निर्गतांस्त्रिशद्भ्योऽङ्गुलिभ्य इति निस्त्रिंशः खड्गः 'कृपाणं खङ्गे तु निस्त्रिंश चन्द्रहासासिरिष्टयः' इत्यमरः । तस्य धाराजलेन तीक्ष्णाग्रभागजलेन सङ्गतं मिश्रितं द्विषां शत्रूणा 'द्विड्विपक्षा हितामित्रप्रत्यर्थ्याप्रवञ्चशत्रवः' इत्यमरः । यशः कीर्तिं क्षीरमिव दुग्धमिवाऽऽचकर्ष पृथक् कृतवान् । हंसो मिश्रित- नीरक्षीरयोः क्षीरं पिबति नीरं त्यजतीति प्रसिद्धिः । कुन्तलराजपुत्रोऽपि स्वखङ्ग- धाराजलमिश्रितशत्रुयशसो यशः पृथक्त्वेन स्वीचकारेति भावः । श्लेषानुप्रामि- तातिशयोक्तिनिदर्शना चालङ्कारः । भाषा उस कुन्तलदेश के राजपुत्र ने श्रेष्ठराजा की या राजहंस पक्षी की एक विलक्षण लीला दिखाई । जिस प्रकार राजहंस पानी और दूध मिला देने पर पानी से