विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 220, कुल 493 में से
संदर्भ में पढ़ें( १९७ ) प्रतिष्ठापयति स्म । बहवो बहुसंख्यकाः क्षितीशा राजानः कन्यायाः स्वदुहितुः प्रदानं - पाणिग्रहणरूपेण समर्पणं तस्य च्छलेन 'व्याजेनाऽस्यास्मै राजकुमाराय सर्वस्वस्य सर्वधनराज्यादेः प्रदान चक्रुः सर्वस्वं धनराज्यादिकं यावद्वस्तु ददुः । “अस्य सर्वस्वदानं चक्रुः” इत्यत्र “अस्ये”ति षष्ठीप्रयोगश्चिन्त्यः । भाषा विक्रमाङ्कदेव ने शरण में आए हुए मालवा के राजा को निष्कण्टक राज्य पर पुन बैठा दिया । बहुत से अन्य राजाओ ने अपनी कन्याओ का उसके साथ विवाह कर देने के भिष से अपना सर्वस्व उसको समर्पण कर दिया । त्रिलोकवीरः कियतो विजिग्ये न दुर्द्दमानां प्रतिपार्थिवानाम् । दोर्विक्रमेणाद्भुतसाहसेन महाहवानाहवमल्लसूनुः ॥६८॥ अन्वयः त्रिलोकवीरः आहवमल्लसूनुः अद्भुतसाहसेन दोर्विक्रमेण दुर्द्दमानां प्रतिपार्थिवानां कियतः महाहवान् न विजिग्ये । व्याख्या त्रिलोके भुवनत्रये वीर एकशूर आहवमल्लस्य सूनुः पुत्रो विक्रमाङ्कदेवोऽ- द्भुतं चित्रं साहसं दमो यस्य सः 'साहसं तु दमो दण्डः' इत्यमरः । तेन दोष्णोर्भुजयोर्विक्रमः पराक्रमस्तेन दुःखेन दमयितुं दान्तुं दण्डयितुं शक्या दुर्द्दमास्तेषां दुर्द्दमानां दुर्जयानां प्रतिपार्थिवाना विपक्षनृपाणां शत्रूणामित्यर्थः । कियतः कतिसंख्याकान् महाहवान् महासंग्रामान् विजिग्ये न जयति स्म । बहुसंख्यानि महायुद्धानि जयति स्मेति भावः । अत्रार्थापत्त्यलङ्कारः । भाषा तीनो लोको में अपनी वीरता का सानी न रखने वाले आहवमल्ल राजा के पुत्र विक्रमाङ्क देव ने, विचित्र दमनशक्ति से युक्त अपनी भुजाओ के पराक्रम से अनेक दुर्दान्त विपक्षी राजाओं के अर्थात् शत्रुओं के कितने महायुद्धो को नही जीता । अर्थात् अनेक महायुद्धो को जीता । उत्कन्धरानेव रणाङ्गणेषु यस्यातितुङ्गस्य हठात्प्रहर्तुः । न नम्रभावादपरो नृपाणा-मासीत्कृपाणप्रतिषेधमार्गः ॥६६॥