विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 227, कुल 493 में से
संदर्भ में पढ़ें॥ श्रीः ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम् ——————— चतुर्थः सर्गः कार्यतो युवराजत्वे राजसूनुरवस्थितः । स दिग्विजयमन्याज-वीरः स्मर इवाकरोत् ॥१॥ अन्वयः कार्यतः युवराजत्वे अवस्थितः अव्याजवीरः सः राजसूनुः स्मरः इव दिग्विजयम् अकरोत् । व्याख्या कार्यतस्सम्पूर्णराज्यकार्यकारित्वाद्युवराजत्वे युवराजकार्यसम्पादनेऽवस्थितः प्रतिष्ठितो न तु युवराजपदे समभिषिक्तस्तत्र तु तदग्रजस्सोमदेवो नाम राजपुत्रोऽ- भिषिक्त आसीत् । व्याजेन कपटेन वीरो व्याजवीरः स न भवतीत्यव्याजवीरो निष्कपटवीरः सत्यशूर इत्यर्थः । सः प्रसिद्धो राजसूनुर्नृपपुत्रः 'आत्मजस्तनयः सूनुस्सुतः पुत्रः स्त्रियां त्वमी' इत्यमरः । विक्रमाङ्कदेवः स्मर इव काम इव 'कामः पञ्चशरः स्मरः' इत्यमरः । दिशामाशानां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । लक्षणया दिक्षु स्थितानां राज्ञामन्यजना- नाञ्च विजयं जयमकरोत् । पृथ्वोस्थसकलभूपानां पराजयं विधाय तान् स्ववशे कृतवानित्यर्थः । राजसूनोःस्मरेण साधर्म्यादत्रोपमालङ्कारः 'साधर्म्यमुपमा भेदे' । सर्गेऽस्मिन्ननुष्टुप् छन्दः । 'श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः ॥' इति लक्षणात् भाषा सम्पूर्ण राज्य कार्य करने के लिये युवराज पद पर अभिषिक्त न होते हुए