विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 232, कुल 493 में से
संदर्भ में पढ़ें( २११ ) व्याख्या मलयेन मलयाचलेन तस्य विक्रमाङ्कदेवस्येमा इति तदीयाः स्त्रियो भार्यास्तासां सुरभीणि सुगन्धीनि 'सुरभिर्घ्राणतर्पण । इष्टगन्धः सुगन्धिः स्यात्' इत्यमरः । श्वसितान्येवाऽनिलास्तैस्तदीयाङ्गनासुगन्धिश्वसितानिलैर्गुहा व्यर्थश्चन्दनवायूनां श्रीखण्डानिलानां बीजार्थं बीजसंरक्षणाय पूरिता इव परिपूर्णीकृता इव । गजकृतसमस्तचन्दनवृक्षनाशोऽपि आगामिनि समये कान्तासुरभिश्वसितरूपबीजैः प्रभूताश्चन्दनवायवस्समुत्पत्स्यन्तीति धिया मलयेन तासां श्वसितानां गुहासु बीजरूपेण संग्रहः कृत इति भावः । श्वसितानिलैर्गुहापरिपूरणे चन्दनवायुरूप- बीजसंरक्षणस्य फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा, तया च तदीयाङ्गनानां श्वसिता- निलैस्सह मलयपवनानामुपमा गम्यते । भाषा मलयाचल ने, विक्रमाङ्कदेव के हाथियो द्वारा चन्दन वृक्षो का समूल नाश कर दिये जाने पर, चन्दन की सुगन्ध से युक्त वायुओ का बीज बनाए रखने के लिये मानो विक्रमाङ्कदेव की सेना में की अङ्गनाओ के सुगन्धित सांसो को गुफाओ में भर लिया । गजोन्यूलितनिक्षिप्तचन्दनद्रुमसम्पदः । स मूल्यमिव रत्नानि जग्राह महतोऽम्बुधेः ॥६॥ अन्वयः सः गजोन्यूलितनिक्षिप्तचन्दनद्रुमसम्पदः महतः अम्बुधेः रत्नानि मूल्यम् इव जग्राह । व्याख्या स विक्रमाङ्कदेवो गजैर्हस्तिभिः पूर्वमुन्मूलिता उत्पाटिता ,पश्चात्प्रक्षिप्तास्तं- पातिताश्चन्दनद्रुमास्तद्रूपासम्पदो यस्मिन् स नागसमूहोत्पाटितसंपातितचन्दनमही- रुहरूपसम्पत्तेर्महतोऽम्बुधेर्महासागरात् महासागरसकाशादित्यर्थः । रत्नानि समुद्रस्थितविविधरत्नसमूहान् मूल्यमिव यत्तच्चन्दनद्रुमसम्पत्तेर्मूल्यार्थमिव जग्राह गृहीतवान् । परिवृत्तिनामायङ्कारः । "परिवृत्तिर्विनिमयः समन्यूनाधि- कैर्भवेत्" इति लक्षणात् ।